भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 469, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 469

४६८ ॥ काशिका ॥ ५ ॥ ४ ॥ अभिविधिरभिव्याप्तिः । अभिविधौ गम्यमाने च्विविषये सातिः प्रत्ययो भवति संपदा योगे, चकारात्कृभ्वस्तिभिश्च । विभाषाग्रहणानुवृत्तेश्चिरप्य- नुज्ञायते । स च कृभ्वस्तियोगएव भवति न संपदा । अग्निसात्संपद्यते । अग्नि- साद्भवति । उदकसात्संपद्यते । उदकसाद्भवति लवणम् । अग्नीभवति । उद- कीभवति । अथाभिविधेः कार्त्स्न्यस्य च को विशेषः । यत्रैकदेशेनापि सर्वो प्रकृतिर्विकारमापद्यते सोभिविधिः । यथा ऽस्यां सेनायामुत्पातेन सर्वं शस्त्र- मग्निसात्संपद्यते । वर्षासु सर्वं लवणमुदकसात्संपद्यतइति । कार्त्स्न्यं तु सर्वो- त्मना द्रव्यस्य विकाररूपापत्तौ भवति ॥ तदधीनवचने ॥ ५४ ॥ अभूततद्भावइति निवृत्तम् अर्थान्तरोपादानात् । कृभ्वस्तियोगे संपदा चेति वर्तते । तदधीनं तदायत्तं तत्स्वामिकमित्यर्थः । स्वामिसामान्यमीशितव्य- सामान्यं च तदधीनशब्देन निर्दिश्यते । स्वामिविशेषवाचिनः प्रातिपदिकादधी- तव्ये ऽभिधेये सातिः प्रत्ययो भवति कृभ्वस्तिभिः संपदा च योगे । राजाधीनं करोति, राजसात्करोति । राजसाद्भवति । राजसात्स्यात् । राजसात्संपद्यते । ब्राह्मणसात्करोति । ब्राह्मणसाद्भवति । ब्राह्मणसात्स्यात् । ब्राह्मणसात्संपद्यते ॥ देये त्रा च ॥ ५५ ॥ तदधीनवचनइत्यनुवर्त्तते । तस्य विशेषणं देयग्रहणम् । दातव्यं देयं, तदधीने देये त्रा प्रत्ययो भवति चकारात्सातिश्च कृभ्वस्तिभिः संपदा च योगे । ब्राह्मणेभ्यो देयमिति यद्विज्ञातं तद्यदा तेषां समर्पणेन तदधीनं क्रियते तदा त्रा प्रत्ययः । ब्राह्मणाधीनं देयं करोति, ब्राह्मणसात्करोति । ब्राह्मणत्रा करोति । ब्रह्मणत्रा भवति । ब्राह्मणत्रा स्यात् । ब्राह्मणत्रा संपद्यते । देय- इति किम् । राजसाद्भवति राष्ट्रम् ॥ देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् ॥ ५६ ॥ सातिर्निवृत्तः त्राप्रत्ययो ऽनुवर्त्तते । देवादिभ्यः प्रातिपदिकेभ्यो द्विती- यासप्तम्यन्तेभ्यः त्रा प्रत्ययो भवति बहुलम् । कृभ्वस्तिभिरिति नात्र संबध्यते । सामान्येन विधानम् । देवान् गच्छति, देवत्रा गच्छति । देवेषु वसति, देवत्रा वसति । मनुष्यान् गच्छति, मनुष्यत्रा गच्छति । मनुष्येषु वसति, मनुष्यत्रा वसति । एवमन्येष्वप्युदाहार्यः । पुरुषान्गच्छति, पुरुषत्रा गच्छति । पुरुषेषु वसति, पुरुषत्रा वसति । पुरुन्गच्छति, पुरुत्रा गच्छति । पुरुषु वसति, पुरुत्रा वसति । मर्त्यान्वसति, मर्त्यत्रा वसति । मर्त्येषु वसति, मर्त्यत्रा वसति । बहुलवचना- दन्यत्रापि भवति । बहुत्रा जीवतो मन इति ॥