काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 470, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ४ ॥ ४६६ अव्यक्तानुकरणाद् द्व्यजवरार्द्धादनितौ डाच् ॥ ५७ ॥ यत्र ध्वनावकारादयो वर्णा विशेषरूपेण न व्यज्यन्ते सो ऽव्यक्तः। तस्या- नुकरणमव्यक्तानुकरणम्। द्व्यच् अवरार्द्धं यस्य तद् द्व्यजवरार्धम्। अवरशब्दो- ऽपकर्षे। यस्यापकर्षे क्रियमाणे सुष्ठु न्यूनमर्द्धं द्व्यचं संपद्यते तस्मादव्यक्तानुक- रणादनितिपराड्डाच्प्रत्ययो भवति। कृभ्वस्तियोगइत्यनुवर्त्तते। यस्य च द्विवे- चने कृते द्व्यजवरार्द्धं ततः प्रत्ययः। डाचि बहुलं द्वे भवत इति विषयसप्तमी। डाचि विवक्षिते द्विवचनमेव पूर्वं क्रियते पश्चात्प्रत्ययः। पटपटा करोति। पटपटा भवति। पटपटा स्यात्। दमदमा करोति। दमदमा भवति। दम- दमा स्यात्। अव्यक्तानुकरणादिति किम्। दृषत्करोति। द्व्यजवरार्द्धादिति किम्। श्रत्करोति। अवरग्रहणं किम्। खरटखरटा करोति। चपटचपटा करोति। अनिताविति किम्। पटिति करोति। चकारः स्वरार्थः स्वरितेबाधनार्थः। पटपटासि। अत्र स्वरिता वा ऽनुदात्ते पदादाविति स्वरितो न भवति। के चिद्द्व्यजवरार्ध्यादिति यकारं पठन्ति स स्वार्थिको विज्ञेयः॥ कृञो द्वितीयतृतीयशम्बबीजात्कृषौ ॥ ५८ ॥ द्वितीयतृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे नान्यत्र। पुनः कृञ्ग्रहणं भ्वस्त्योर्निवृत्त्यर्थम्। द्वितीया करोति। द्वितीयं कर्षंयां विलेखनं करोतीत्यर्थः। तृतीया करोति। शम्बा करोति। अनुलोमककृष्टं क्षेत्रं पुनः प्रतिलोमं कृषतीत्यर्थः। बीजा करोति। सह बीजेन विलेखनं करोतीत्यर्थः। कृषाविति किम्। द्वितीयं करोति पदम्॥ संख्यायाश्च गुणान्तायाः ॥ ५९ ॥ कृञ इत्यनुवर्त्तते, कृषाविति च। संख्यावाचिनः शब्दस्य गुण शब्दो ऽन्ते समीपे यत्र संभवति सा संख्या गुणान्तेत्युच्यते। तादृशात्प्रातिपदिका- त्कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे। द्विगुणं विलेखनं करोति क्षेत्रस्य, द्विगुणा करोति क्षेत्रम्। त्रिगुणा करोति। कृषाविति किम्। द्विगुणां करोति रज्जुम्॥ समयाच्च यापनायाम् ॥ ६० ॥ कृञ इत्येव। कृषाविति निवृत्तम्। कर्त्तव्यस्यावसरप्राप्तिः समयस्तस्या- तिक्रमो यापना। समयशब्दाद्यापनायां गम्यमानायां डाच् प्रत्ययो भवति कृञो योगे। समया करोति। यापयति, कालक्षेपं करोतीत्यर्थः। यापनाया- मिति किम्। समयं करोति॥ सपत्ननिष्पत्रादतिव्यथने ॥ ६१ ॥