काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 471, कुल 828 में से
संदर्भ में पढ़ें४७० ॥ काशिका ॥ ५ । ४ ॥ कृञ इत्येव। सपक्षनिष्पत्रशब्दाभ्यामतिव्यथने डाच् प्रत्ययो भवति कृञो योगे सति। अतिव्यथनमतिपीडनम्। सपक्षा करोति मृगं व्याधः। सपक्षं शरमस्य शरीरे प्रवेशयतीत्यर्थः। निष्पत्रा करोति। शरीराच्छरमपरपार्श्वे निष्क्रामयतीत्यर्थः। अतिव्यथनइति किम्। सपक्षं वृक्षं करोति जलसेचकः। निष्पत्रं वृक्षतलं करोति भूमिशोधकः॥ निष्कुलान्निष्कोषणे ॥ ६२ ॥ कृञ इत्येव। निष्कुलशब्दान्निष्कोषणे वर्तमानात्कृञो योगे डाच् प्रत्ययो भवति। निष्कोषणमन्तरवयवानां बहिर्निष्कासनम्। निष्कुला करोति मत्स्यम्। निष्कुष्णातीत्यर्थः। निष्कोषणइति किम्। निष्कुलान्करोति शत्रून्॥ सुखप्रियादानुलोम्ये ॥ ६३ ॥ सुखप्रियशब्दाभ्यामानुलोम्ये वर्तमानाभ्यां कृञो योगे डाच् प्रत्ययो भवति। आनुलोम्यमनुकूलता, आराध्यचित्तानुवर्तनम्। सुखा करोति। प्रिया करोति। स्वाम्यादेश्चित्तमाराधयतीत्यर्थः। सुखं प्रियं वा कुर्वन्नप्यानुलोम्ये ऽव- स्थित एवमुच्यते। आनुलोम्यइति किम्। सुखं करोति, प्रियं करोत्यौषधपानम्॥ दुःखात्प्रातिलोम्ये ॥ ६४ ॥ कृञ इत्येव। दुःखशब्दात्प्रातिपदिकात्प्रातिलोम्ये गम्यमाने डाच् प्रत्ययो भवति कृञो योगे। प्रातिलोम्यं प्रतिकूलता। स्वाम्यादेश्चित्तपीडनम्। दुःखा करोति भृत्यः। प्रातिलोम्यइति किम्। दुःखं करोति कटकम्॥ शूलात्पाके ॥ ६५ ॥ कृञ इत्येव। शूलशब्दात्पाकविषये डाच् प्रत्ययो भवति कृञो योगे। शूले पचति, शूला करोति मांसम्। पाकइति किम्। शूलं करोति कटकम्॥ सत्यादशपथे ॥ ६६ ॥ कृञ इत्येव। सत्यशब्दादशपथे डाच् प्रत्ययो भवति कृञो योगे। सत्य- शब्दो ऽनृतप्रतिपक्षवचनः क चिच्छपथे च वर्तते सत्येन शापयेद्विप्रमिति, तस्यायं प्रतिषेधः। सत्या करोति वणिक् भाण्डम्। मयैतत्क्रेतव्यमिति सत्यं करोति। अशपथइति किम्। सत्यं करोति ब्राह्मणः॥ मद्रात्परिवापने ॥ ६७ ॥ कृञ इत्येव। मद्रशब्दात्परिवापने डाच् प्रत्ययो भवति कृञो योगे। परिवापनं मुण्डनम्। मद्रशब्दो मङ्गलार्थः। मङ्गलं मुण्डनं करोति, मद्रा करोति॥ भद्राच्चेति वक्तव्यम् ॥ * ॥ भद्रा करोति नापितः कुमारम्। परि- वापनादिति किम्। भद्रं करोति ॥