काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 47, कुल 828 में से
संदर्भ में पढ़ें४० ॥ काशिका ॥ १ ॥ २ ॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः ॥ ६५ ॥ शेष इति वर्तते । यूनेति सहयोगे तृतीया । वृद्धो यूना सहवचने शिष्यते युवा निवर्त्तते । वृद्धशब्दः पूर्वाचार्यसंज्ञा गोत्रस्य । अपत्यमन्तर्हितं वृद्धमिति । वृद्धयूनोः सहवचने वृद्धः शिष्यते तल्लक्षणश्चेदेव विशेषः । तदिति वृद्धयूनो- र्निर्देशः । लक्षणशब्दे निमित्तपर्यायः । चेच्छब्दो यद्यर्थे, एवकारो ऽवधारणे । विशेषो वैरूप्यम् । वृद्धयुवनिमित्तकमेव यदि वैरूप्यं भवति ततो वृद्धः शिष्यते युवा निवर्त्तते । समानायामाकृतौ वृद्धयुनप्रत्ययौ भिद्येते । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वात्स्यश्च वात्स्यायनश्च वात्स्यौ । वृद्ध इति किम् । गर्गश्च गार्ग्याय- णश्च गर्गगार्ग्यायणौ । यूनेति किम् । गार्ग्यश्च गर्गश्च गार्ग्यगर्गौ । तल्लक्षण इति किम् । गार्ग्यवात्स्यायनौ । एवकारः किमर्थः । भागवित्तिश्च भागवित्तिकाश्च भा- गवित्तिभागवित्तिकौ । कुत्सा सौवीरत्वं च भागवित्तिकस्यापरो विशेषो विद्यते ॥ स्त्री पुंवच्च ॥ ६६ ॥ शेष इति वर्तते, वृद्धो यूनेति च सर्वं, स्त्री वृद्धा यूना सहवचनेशिष्यते तल्लक्षणश्चेदेव विशेषो भवति । पुंसद्वास्याः कार्यं भवति । स्त्र्यर्थः पुमर्थवद्ब- भति । गार्गी च गार्ग्यायणश्च गार्ग्यौ । वात्सी च वात्स्यायनश्च वात्स्यौ । दाक्षी च दाक्षायणश्च दाक्षी ॥ पुमान् स्त्रिया ॥ ६७ ॥ तल्लक्षणश्चेदेव विशेष इति वर्तते । वृद्धो यूनेति निवृत्तम् । स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्त्तते । स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । कुक्कुटश्च कुक्कुटी च कुक्कुटौ । तल्लक्षणश्चे- देव विशेष इत्येव । कुक्कुटश्च मयूरी च कुक्कुटमयूर्यौ । एवकारः किमर्थः । इन्द्रश्च इन्द्राणी चेन्द्रेन्द्राण्यौ । पुंयोगादाख्यायामित्यपरो विशेषः । पुमानिति किम् । प्राक्च प्राची च प्राक्प्राच्यौ । प्रागित्यु व्ययमलिङ्गम् ॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ॥ ६८ ॥ यथासंख्यं भ्रातृपुत्रशब्दौ शिष्येते सहवचने स्वसृदुहितृभ्याम् । स्वस्रा सहवचने भ्रातृशब्दः शिष्यते । भ्राता च स्वसा च भ्रातरौ । दुहित्रा सहवचने पुत्र शब्दः शिष्यते । पुत्रश्च दुहिता च पुत्रौ ॥ नपुंसकमनपुंसकेनकवच्चास्यान्यतरस्याम् ॥ ६९ ॥ तल्लक्षणश्चेदेव विशेष इति वर्तते । नपुंसकानपुंसकमात्रकृते विशेषे ऽनपुंसकेन सहवचने नपुंसकं शिष्यते एकवच्चास्य कार्ये भवति चान्यतरस्याम् । शुक्लश्च कम्बलः शुक्ला च बृहत्तिका शुक्लं च वस्त्रं तदिदं शुक्लम् । तानीमानि