काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 46, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ १ ॥ २ ॥ ३९ न्योर्बहुवचनमन्यतरस्यां भवति। कदा पूर्वे फल्गुन्यौ, कदा पूर्वाः फल्गुन्यः। कदा पूर्वे प्रोष्ठपदे, कदा पूर्वाः प्रोष्ठपदाः। नक्षत्रइति किम्। फल्गुन्यौ माणविके ॥ छन्दसि पुनर्वस्वोरेकवचनम् ॥ ६१ ॥ अन्यतरस्यामित्यनुवर्तते। द्वयोर्द्विवचने प्राप्ते पुनर्वस्वोश्छन्दसि विषये एकवचनमन्यतरस्यां भवति। पुनर्वसुर्नक्षत्रमदितिर्देवता। पुनर्वसूनक्षत्रमदिति- र्देवता। नक्षत्रइत्येव। पुनर्वसू माणवकौ। छन्दसीति किम्। पुनर्वसू इति ॥ विशाखयोश्च ॥ ६२ ॥ छन्दसीति वर्तते, द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनम- न्यतरस्यां भवति। विशाखा नक्षत्रमिन्द्राग्नी देवता। विशाखे नक्षत्रमि- न्द्राग्नी देवता ॥ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् ॥ ६३ ॥ छन्दसीति निवृत्तम्। तिष्य एकः पुनर्वसू द्वौ तेषां द्वन्द्वे बह्वर्थः। तत्र बहुवचने प्राप्ते द्विवचनं विधीयते। तिष्यपुनर्वस्वोर्नक्षत्रविषये द्वन्द्वे बहुवचन- प्रसङ्गे नित्यं द्विवचनं भवति। उदितौ तिष्यपुनर्वसू दृश्येते। तिष्यपुनर्वस्वोरिति किम्। विशाखानुराधाः। नक्षत्रइति किम्। तिष्यश्च माणवकः पुनर्वसू माण- वकौ तिष्यपुनर्वसवो माणवकाः। ननु च प्रकृतमेव नक्षत्रग्रहणं किमर्थं पुनरु- च्यते। पर्यायाणामपि यथा स्यात्। तिष्यपुनर्वसू। पुष्यपुनर्वसू। सिध्यपुनर्वसू। द्वन्द्वइति किम्। यस्तिष्यस्तौ पुनर्वसू येषां तइमे तिष्यपुनर्वसवः। उन्मुग्धा- स्तिष्यादय एव विपर्ययेण दृश्यमाना बहुव्रीहिणोच्यन्ते। तेन नक्षत्रसमास एवा- यम्। बहुवचनस्येति किम्। एकवचनस्य मा भूत्, तिष्यपुनर्वसु इदमिति। सर्वो द्वन्द्वो विभाषा एकवद्भवतीत्यस्यैतदेव ज्ञापकम्। नित्यग्रहणं विकल्पानिवृत्त्यर्थम् ॥ सरूपाणामेकशेष एकविभक्तौ ॥ ६४ ॥ समानं रूपमेषामिति सरूपाः। सरूपाणां शब्दानां एकविभक्तौ परत एकशेषो भवति। एकः शिष्यते इतरे निवर्तन्ते। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च वृक्षश्च वृक्षाः। प्रत्यर्थं शब्दनिवेशाच्चैकेनानेकस्याभिधानं, तत्रानेकार्थाभि- धाने ऽनेकशब्दत्वं प्राप्तं तस्मादेकशेषः। सरूपाणामिति किम्। प्लक्षन्यग्रोधाः। रूपग्रहणं किम्। भिन्नेऽप्यर्थे यथा स्यात्। अक्षाः। पादाः। माषाः। एकग्रहणं किम्। द्विबह्वोः शेषो मा भूत्। शेषग्रहणं किम्। आदेशो मा भूत्। एकवि- भक्ताविति किम्। पयः पयो जरयति। ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि ॥