भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 45, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 45

३८ ॥ काशिका ॥ १ ॥ २ ॥ कालोपसर्जने च तुल्यम् ॥ ५७ ॥ अशिष्यमिति वर्तते। कालोपसर्जने चाशिष्ये कस्मादर्थस्यान्यप्रमाण- त्वात्। तुल्यशब्दो हेत्वनुकर्षणार्थः। अशिष्यविशेषणं चैतत्। कालोपसर्जने च तुल्यमशिष्ये भवतः। इहान्ये वैयाकरणाः कालोपसर्जनयोः परिभाषां कुर्व- न्ति। आन्याय्यादुत्थानादान्याय्याच्च संवेशनात्। एषोऽद्यतनः कालः। अपरे पुनराहुः। अहुरुभयतोऽर्द्धरात्रं षषोऽद्यतनः काल इति। तथोपसर्जनपरिभाषां कुर्वन्ति अप्रधानमुपसर्जनमिति। तत्पाणिनिराचार्यः प्रत्याचष्टे लोकतो ऽर्था- वगतेः। यैरपि व्याकरणं न श्रुतं तेप्याहुरिदमस्माभिरद्य कर्तव्यमिदं श्वः कर्तव्यमिदं ह्यः कृतमिति। नैवं व्युत्पाद्यन्ते! तथोपसर्जनं वयमत्र गृहे यस्मै वा उपसर्जनमप्रधानमिति गम्यते। यश्च लोकतो ऽर्थः सिद्धः किं तत्र यत्नेन। यद्येवं पूर्वसूत्रएव कालोपसर्जनग्रहणं कस्मान्न क्रियते, किमर्थो योगविभागः। प्रदर्शनार्थः। अन्यदप्येवं जातीयकमशिष्यमिति। तथा च पूर्वाचार्याः परिभा- षन्ते मत्वर्थे बहुव्रीहिः, पूर्वपदार्थप्रधानो ऽव्ययीभावः, उभयपदार्थप्रधानो द्वन्द्व इत्येवमादि, तदशिष्यमिति ॥ जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ॥ ५८ ॥ अशिष्यमिति निवृत्तम्। जातिर्नामायमेकोऽर्थः तदभिधाने एकवचनमेव प्राप्तमत इदमुच्यते जातेराख्या जात्याख्या जात्याख्यायामेकस्मिन्नर्थे बहुवचन- मन्यतरस्यां भवति। जात्यर्थो बहुवद् भवतीति यावत्। तेन तद्विशेषणाना- मजातिशब्दानामपि संपन्नादीनां बहुवचनमुपपद्यते। संपन्नो यवः। संपन्ना यवाः। संपन्नो व्रीहिः। संपन्ना व्रीहयः। पूर्ववया ब्राह्मणः प्रत्युत्थेयः। पूर्व- वयसो ब्राह्मणाः प्रत्युत्थेयाः। जातिग्रहणं किम्। देवदत्तो यज्ञदत्तः। आख्या- यामिति किम्। काश्यपप्रतिकृतिः काश्यपः। भवत्ययं जातिशब्दो न त्वनेन जातिराख्यायते किं तर्हि प्रतिकृतिः। एकस्मिन्निति किम्। व्रीहियवौ ॥ संख्या- प्रयोगे प्रतिषेधो वक्तव्यः ॥ * ॥ एको व्रीहिः संपन्नः सुभिक्षं करोति ॥ अस्मदो द्वयोश्च ॥ ५९ ॥ अस्मदो योऽर्थस्तस्यैकत्वे द्वित्वे च बहुवचनमन्यतरस्यां भवति। अहं ब्रवीमि। वयं ब्रूमः। आवां ब्रूवः। वयं ब्रूमः॥ सविशेषणस्य प्रतिषेधो वक्त- व्यः ॥ * ॥ अहं देवदत्तो ब्रवीमि। अहं गार्ग्यो ब्रवीमि। अहं पटुर्ब्रवीमि। युष्मदि गुरावेकेषाम्। त्वं मे गुरुः। यूयं मे गुरवः ॥ फल्गुनीप्रोष्ठपदानां च नक्षत्रे ॥ ६० ॥ चकारो द्वयोरित्यनुकर्षणार्थः। फल्गुन्योर्द्वयोः प्रोष्ठपदयोश्च द्वयोर्नक्ष-