काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 478, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ४ ॥ ४७२ अतिक्रान्तः श्वान,मतिश्वो वराहः । जबवानिव्यर्थः । अतिश्वः सेवकः । सुष्ठु स्वामिभक्त इत्यर्थः । अतिश्वी सेवा । अतिनीचेत्यर्थः ॥ उपमानादप्राणिषु ॥ ९७ ॥ उपमानवाची यः श्वशब्दोऽप्राणिषु वर्तते तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति । आकर्षः श्वेव, आकर्षश्वः । फलकश्वः । उपमितं व्याघ्रादिभिरिति समासः । उपमानादिति किम् । न श्वा, अश्वा लोष्टः । अप्राणिष्विति किम् । वानरः श्वेव, वानरश्वा ॥ उत्तरमृगपूर्वाच्च सक्थः ॥ ९८ ॥ उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दश्चकारादुपमानाच्च, तद- न्तात्तत्पुरुषाट्टच् प्रत्ययो भवति समासान्तः । उत्तरसक्थम् । मृगसक्थम् । पूर्व- सक्थम् । उपमानात्सत्स्वपि । फलकमिव सक्थि, फलकसक्थम् ॥ नावो द्विगोः ॥ ९९ ॥ नौशब्दान्ताद् द्विगोष्टच्प्रत्ययो भवति समासान्तः । द्वे नावौ समा- हृते, द्विनावम् । त्रिनावम् । द्विनावधनः । पञ्चनावप्रियः । द्वाभ्यां नौभ्या- मागतं, द्विनावशूप्यम् । द्विनावमयम् । द्विगोरिति किम् । राजनौः । अतद्धित- लुकीत्येव । पञ्चभिर्नौभिः क्रीतः, पञ्चनौः । दशनौः ॥ अर्द्धाच्च ॥ १०० ॥ अर्द्धशब्दात्परो यो नौशब्दस्तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति । अर्द्धं नावः, अर्द्धनावम् । अर्द्धं नपुंसकमिति समासः । परवल्लिङ्गं न भवति लोका- श्रयत्वाल्लिङ्गस्य ॥ खार्याः प्राचाम् ॥ १०१ ॥ द्विगोरर्द्धाच्चेति द्वयमप्यनुवर्त्तते । खारीशब्दान्ताद् द्विगोरर्द्धाच्च परो यः खारीशब्दस्तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति प्राचामाचार्याणां मतेन । द्वे 'खार्यौ समाहृते, द्विखारम् । द्विखारि । त्रिखारम् । त्रिखारि । अर्द्धं खार्या, अर्द्धखारम् । अर्द्धखारी ॥ द्वित्रिभ्यामञ्जलेः ॥ १०२ ॥ द्वित्रिभ्यां परो यो ऽञ्जलिशब्दस्तदन्तात्तत्पुरुषाट्टच्प्रत्ययो भवति । द्वावञ्जली समाहृतौ, द्व्यञ्जलम् । त्र्यञ्जलम् । द्विगोरित्येव । द्वयोरञ्जलिः, द्व्यञ्जलिः । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो, द्व्यञ्जलिः । त्र्यञ्ज- लिः । प्राचामित्येव । द्व्यञ्जलिप्रियः ॥ अनसन्तान्नपुंसकाच्छन्दसि ॥ १०३ ॥