काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 477, कुल 828 में से
संदर्भ में पढ़ें४७६ ॥ काशिका ॥ ५ । ४ ॥ राजन् अहन् सखि इत्येवमन्तात्प्रातिपदिकात् टच् प्रत्ययो भवति । महाराजः । मद्रराजः । परमहः । उत्तमहः । राज्ञः सखा, राजसखः । ब्राह्म- णसखः । इह कस्मान्न भवति मद्राणां राज्ञी, मद्रराज्ञी, लिङ्गविशिष्टपरिभाषया प्राप्नोति । लघ्वक्षरस्य पूर्वनिपाते प्राप्ते राजशब्दस्य सवर्णदीर्घार्थं प्रथमं प्रयोगं कुर्व्वन्नेतद् ज्ञापयति यस्याकारेण सवर्णदीर्घत्वं संभवति तस्येदं ग्रहणमिति ॥ गोरतद्धितलुकि ॥ ९२ ॥ गोशब्दान्तात्तत्पुरुषाट्टच् प्रत्ययो भवति स चेत्तत्पुरुषस्तद्धितलुग्विषयो न भवति । परमगवः । उत्तमगवः । पञ्चगवम् । दशगवम् । अतद्धितलुकीति किम् । पञ्चभिर्गोभिः क्रीतः, पञ्चगुः । दशगुः । तेन क्रीतमित्यागतस्यार्हीयस्य ठको ऽध्यर्द्धपूर्वद्विगोरिति लुक् । तद्धितग्रहणं किम् । सुब्लुकि प्रतिषेधो मा भूत । राजगवमिच्छति, राजगवयति । लुग्ग्रहणं किम् । तद्धितेएव मा भूत । पञ्चभ्यो गोभ्य आगतं पञ्चगवरूप्यम् । पञ्चगवमयम् । दशगवरूप्यम् । दशगवमयम् ॥ अङ्गाख्यायामुरसः ॥ ९३ ॥ उरः शब्दान्तात्तत्पुरुषाट्टच् प्रत्ययो भवति स चेदुरःशब्दो ऽङ्गाख्यायां भवति । अग्रं प्रधानमुच्यते । यथा शरीरावयवानामुच्यते उरः प्रधानम् । एव- मन्यो ऽपि प्रधानभूत उरश्शब्देनोच्यते । अश्वानाहुरः, अश्वोरसम् । हस्त्युर- सम् । अङ्गाख्यायामिति किम् । देवदत्तस्योरः, देवदत्तोरः ॥ अनोश्मायस्सरसां जातिसंज्ञयोः ॥ ९४ ॥ अनस् अश्मन् अयस् सरस् इत्येवमन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति जातौ संज्ञायां च विषये । उपानसमिति जातिः । महानसमिति संज्ञा । चामू- ताश्म इति जातिः । पिण्डाश्म इति संज्ञा । कालायसमिति जातिः । लोहि- तायसमिति संज्ञा । मण्डूकसरसमिति जातिः । जलसरसमिति संज्ञा । जाति- संज्ञयोरिति किम् । सदनः । सदश्मा । सत्सरः ॥ ग्रामकौटाभ्यां च तक्ष्णः ॥ ९५ ॥ जातिसंज्ञयोरिति नानुवर्त्तते । ग्रामकौटाभ्यां परो यस्तक्षन्शब्दस्त- दन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति । ग्रामस्य तक्षा, ग्रामतक्षः । बहूनां साधारण इत्यर्थः । कुट्यां भवः कौटः, तस्य तक्षा, कौटतक्षः । स्वतन्त्रः कर्मजीवी । न कस्यचिन्प्रतिबद्ध इत्यर्थः । ग्रामकौटाभ्यामिति किम् । राजतक्षा ॥ अतेः शुनः ॥ ९६ ॥ अतिशब्दात्परो यः श्वन्शब्दस्तदन्तात्तत्पुरुषाट्टच् प्रत्ययो भवति ।