काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 487, कुल 828 में से
संदर्भ में पढ़ेंपूर्णोत्परस्य काकुदशब्दस्य विभाषा लोपो भवति बहुव्रीहौ समासे । पूर्णे काकुदमस्य, पूर्णकाकुत्। पूर्णकाकुदः ॥ सुहृद्दुर्हृदौ मित्रामित्रयोः ॥ १५० ॥ सुहृत् दुर्हृत् इति निपात्येते यथासंख्यं मित्रामित्रयोरभिधेययोः । सुशब्दात्परस्य हृदयशब्दस्य हृद्भावो निपात्यते बहुव्रीहौ, तथा दुःशब्दात्प- रस्य। शोभनं हृदयमस्य, सुहृन्मित्रम् । दुष्टं हृदयमस्य दुर्हृदमित्रम् । मित्रा- मित्रयोरिति किम् । सुहृदयः कारुकिकः । दुर्हृदयश्चोरः ॥ उरःप्रभृतिभ्यः कप् ॥ १५१ ॥ उरःप्रभृत्यन्ताद्बहुव्रीहेः कप् प्रत्ययो भवति । व्यूढमुरो ऽस्य व्यूढोरस्कः । प्रियसर्पिष्कः । अवमुक्तोपानत्कः । पुमान् अनड्वान् पयो नौर्लक्ष्मीरिति विभ- क्त्यन्ताः पठ्यन्ते न प्रातिपदिकानि । तत्रेदं प्रयोजनम्, एकवचनान्तानामेव ग्रह्णमिह विज्ञायेत द्विवचनबहुवचनान्तानां मा भूदिति । तत्र शेषाद्विभा- षेति विकल्प एव भवतीति । द्विपुमान् । द्विपुंस्कः । बहुपुमान् । बहुपुंस्कः । उरस् । सर्पिस् । उपानह् । पुमान् । अनड्वान् । नौः । पयः । लक्ष्मीः । दधि । मधु । शालिः ॥ आर्थाश्चः ॥ चानर्थकः ॥ इनः स्त्रियाम् ॥ १५२ ॥ इनन्ताद्बहुव्रीहेः कप् प्रत्ययो भवति स्त्रियां विषये । बहवो दण्डिनो ऽस्यां शालायां बहुदण्डिका शाला । बहुच्छत्रिका । बहुस्वामिका नगरी । बहुवाग्मिका सभा । स्त्रियामिति किम् । बहुदण्डी राजा । बहुदण्डिकः । शेषाद्विभावेत्येतद्भवति । नद्यृतश्च ॥ १५३ ॥ नद्यन्ताद्बहुव्रीहेर्ऋकारान्ताच्च कप् प्रत्ययो भवति । बह्व्यः कुमार्यो ऽस्मि- न्देशे बहुकुमारीको देशः । बहुब्रह्मबन्धूकः । ऋतः खल्वपि । बहुकर्तृकः । तकारः सुखमुखोच्चारणार्थः ॥ शेषाद्विभाषा ॥ १५४ ॥ यस्माद्बहुव्रीहेः समासान्तो न विहितः स शेषस्तस्माद्विभाषा कप्प्रत्ययो भवति । बह्व्यः खट्वा यस्मिन्बहुखट्कः । बहुमालकः । बहुवीणाकः । बहुखट्वाकः । बहुमालाकः । बहुवीणाकः । बहुखट्वः । बहुमालः । बहुवीणाः । कथमन्वृक्कं साम बह्वृक्कं सूक्तमिति, यावता विहिते ऽत्र सामान्येन समासान्त ऋक्पूरिति । नैतदस्ति । विशेषे स इष्यते, ऋग्यथो माणवको ज्ञेयो बह्वृचश्चरणाख्यायामिति । शेषादिति किम् । प्रियपथः । प्रियधुरः ॥