काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 488, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ५ ॥ ४ ॥ ४८० न संज्ञायाम् ॥ १५५ ॥ संज्ञायां विषये बहुव्रीहौ समासे कप् प्रत्ययो न भवति । पूर्वेण प्राप्तः प्रतिषिध्यते । विश्वे देवा अस्य, विश्वदेवः । विश्वयशाः ॥ ईयसश्च ॥ १५६ ॥ ईयसन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति । सर्वा प्राप्तिः प्रतिषिध्यते । बहवः श्रेयांसो ऽस्य बहुश्रेयान् । शेषाद्विभाषेत्यस्य प्रतिषेधः । बह्व्यः श्रेयस्यो ऽस्य बहुश्रेयसी । नद्यृतश्चेत्यस्य प्रतिषेधः । ह्रस्वत्वमपि न भवति । ईयसो बहुव्रीहौ पुंवदिति वचनात् । वन्दिते भ्रातुः ॥ १५७ ॥ वन्दितेऽर्थे यो भ्रातृशब्दो वर्तते तदन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति । वन्दितः स्तुतः पूजित इत्युच्यते । शोभनो भ्राता ऽस्य सुभ्राता । वन्दितइति किम् । मूर्खभ्रातृकः । दुष्टभ्रातृकः ॥ ऋतश्छन्दसि ॥ १५८ ॥ ऋवर्णान्ताद् बहुव्रीहेरश्छन्दसि विषये कप् प्रत्ययो न भवति । हता माता ऽस्य हतमाता । हतपिता । हतस्वसा । सुहोता ॥ नाडीतन्त्र्योः स्वाङ्गे ॥ १५९ ॥ स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्ताद्बहुव्रीहेः कप् प्रत्ययो न भवति । बह्व्यो नाड्यो ऽस्य बहुनाडिः कायः । बहुतन्त्रीर्ग्रीवा । धमनीवचनस्तन्त्री- शब्दः । स्वाङ्गइति किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥ निष्प्रवाणिश्च ॥ १६० ॥ निष्प्रवाणिरिति नदीलक्षणस्य कपः प्रतिषेधो निपात्यते । प्रोयते ऽस्या- मिति प्रवाणी । प्रवयन्ति तयेति वा प्रवाणी । करणसाधनो ऽयं ल्युट् । तन्तु- वायशलाका भण्यते । निर्गता प्रवाणी अस्य, निष्प्रवाणिः पटः । निष्प्रवाणिः कम्बलः । अपनीतशलाकः । समाप्तवानः प्रत्यग्रोनवक उच्यते ॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ पञ्चमाध्यायस्य चतुर्थश्चरणः ॥ समाप्तः पञ्चमो ऽध्यायः ॥