भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 489, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 489

४८८ ॥ काशिका ॥ ६ । १ ॥ ॥ अथ षष्ठाध्यायस्य प्रथमः पादः ॥ एकाचो द्वे प्रथमस्य ॥ १ ॥ अधिकारो ऽयम् । एकाच इति च द्वे इति च प्रथमस्येति च त्रितय- मधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः प्राक्संप्रसारविधानात् तत्रैकाचः प्रथमस्य द्वे भवत इत्येवं तद्वेदितव्यम् । वक्ष्यति लिटि धातोरनभ्यासस्येति । तत्र धातोरवयवस्थानभ्यासस्य प्रथमस्यैकाचो द्वे भवतः । जगागार । पपाच । इयाय । आर । एकाच इति बहुव्रीहिनिर्देशः । एको ऽच् यस्य सो ऽयमेकाच् इत्यवयवेन विग्रहः, समुदायः । समासार्थः । आभ्यन्तरश्च समुदाये ऽवयवो भवतीति साच्कस्यैव द्विर्वचनं भवति । पच् इत्यत्र येनैवाचा समुदाय एकाच् तेनैव तदवयवो ऽच्छब्दः पशब्दश्च । तत्र पृथगवयवैकाचो न द्विर

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 489, कुल 828 में से · BharatKosha