काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 496, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ । १ ॥ ४९५ वान्। संप्रसारणे कृते यण्ह्रस्वं विहन्तीति निष्ठानत्वं न भवति। प्रस्त्योन्यत- रस्यामिति तु पक्षे मकारः क्रियते। प्रस्तीमः। प्रस्तीमवान्। प्रपूर्वस्येति किम्। संस्त्यानः। संस्त्यानवान्। प्रस्य इत्येवसिद्धे पूर्वग्रहणमिहापि यथा स्यात्। प्रसंस्तीतः। प्रसंस्तीतवान्। तत्कथं प्रपूर्वस्येति बह्वर्थे बहुव्रीहिः। प्रः पूर्वो यस्य धातूपसर्गसमुदायस्य स प्रपूर्वस्तदवयवस्य स्य इति व्यधिकरणो षष्ठी तत्र प्रसंस्तीत इत्यत्रापि प्रपूर्वसमुदायावयवः स्त्याशब्दो भवति॥ द्रवमूर्त्तिस्पर्शयोः श्यः ॥ २४ ॥ द्रवमूर्त्तौ द्रवकाठिन्ये स्पर्शे वर्त्तमानस्य श्यैङ् गतावित्यस्य धातोर्नि- ष्ठायां परतः संप्रसारणं भवति। शीनं घृतम्। शीना वसा। शीनं मेदः। द्रवावस्थायाः काठिन्यं गतमित्यर्थः। श्यो ऽस्पर्शेति निष्ठानत्वम्। स्पर्शे शीतं वर्त्तते। शीतो वायुः। शीतमुदकम्। गुणमात्रे तद्वति चास्य शीतशब्दस्य वृत्तिर्द्रष्टव्या। द्रवमूर्त्तिस्पर्शयोरिति किम्। संश्यानो वृश्चिकः॥ प्रतेश्च ॥ २५ ॥ श्य इति वर्त्तते। प्रतेरुत्तरस्य श्यायतेर्निष्ठायां परतः संप्रसारणं भव- ति। प्रतिशीनः। प्रतिशीनवान्। द्रवमूर्त्तिस्पर्शाभ्यामन्यत्रापि यथा स्यादिति सूत्रारम्भः॥ विभाषा ऽभ्यवपूर्वस्य ॥ २६ ॥ श्य इति वर्त्तते। अभि अव इत्येवंपूर्वस्य श्यायतेर्निष्ठायां विभाषा संप्र- सारणं भवति। अभिशीनम्। अभिश्यानम्। अवशीनम्। अवश्यानम्। द्रव- मूर्त्तिस्पर्शविवक्षायामपि विकल्पो भवति। अभिशीनं घृतम्। अभिश्यानं घृतम्। अवशीनं मेदः। अवश्यानं मेदः। अभिशीतो वायुः। अभिश्यानः। अवशीतमु- दकम्। अवश्यानमुदकम्। सेयमुभयत्र विभाषा द्रष्टव्या। पूर्वग्रहणस्य च प्रयो- जनं समभिश्यानं समवश्यानमित्यत्र मा भूदिति के चिद्याचक्षते। न किलायम- भ्यवपूर्वः समुदाय इति। योऽत्राभ्यवपूर्वः समुदायस्तदाश्रयो विकल्पः कस्मान्न भवति। तस्मादत्र भवितव्यमेव। यदि तु नेष्यते ततो यत्नान्तरमास्थेयमस्मा- द्विभाषाविज्ञानात्। व्यवस्थेयम्। पूर्वग्रहणस्य चान्यत् प्रयोजनं वक्तव्यम्। अभिसंशीनमभिसंश्यानं वा। अवसंशीनमवसंश्यानं वा। अत्र विकल्पो यथा स्याद् इति पूर्वग्रहणं स्यः प्रपूर्वस्येतिवत् * ॥ शृतं पाके ॥ २७ ॥
- अभिसंशीनमित्यारभ्य स्यः प्रपूर्वस्येतिवदित्यन्तःपाठः प्रक्षिप्तो वेदितव्यः, पद- मञ्जर्यां तस्य दर्शनात्।