काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 497, कुल 828 में से
संदर्भ में पढ़ें४९६ ॥ काशिका ॥ ६ ॥ १ ॥ विभाषेत्यनुवर्त्तते । श्ना पाके इत्येतस्य धातोर्यन्तस्याण्यन्तस्य च पाके ऽभिधेये क्तप्रत्यये परतः शुभावो निपात्यते विभाषा । शृतं क्षीरम् । शृतं हविः । व्यवस्थितविभाषा चेयं, तेन क्षीरहविषोर्नित्यं शुभावो भवति । अन्यत्र न भवति । श्लाक्षा यवागूः, श्रपिता यवागूरिति । यदापि बाह्ये प्रयोजके द्वितीया णिजुत्पद्यते तदापि नेष्यते । श्रपितं क्षीरं देवदत्तेन यज्ञदत्तेनेति । श्रान्तिरणमकर्मकः । कर्मकर्तृविषयस्य पचेरर्थे वर्त्तते स ण्यन्तः प्राकृतं पच्यर्थ- माह । तदत्र द्वयोरपि शृतमितीष्यते । शृतं क्षीरं स्वयमेव । शृतं क्षीरं देव- दत्तेन । पाकग्रहणं निपातनविषयप्रदर्शनार्थं तेन क्षीरहविषोरेव ॥ प्यायः पी ॥ २८ ॥ विभाषेत्येव । ओप्यायी वृद्धवित्यस्य धातोर्निष्ठायां विभाषा पीत्यय- मादेशो भवति । पीनं मुखम् । पीनौ बाहू । पीनमुरः । इयमपि व्यवस्थितवि- भाषैव । तेनानुपसर्गस्य नित्यं भवति सोपसर्गस्य तु नैव भवति । प्रप्यानः । आप्यानश्चन्द्रमाः । आङ्पूर्वस्यान्यूधसोर्भवत्येव । आपीनोन्युः । आपीनमूह इति ॥ लिङ्यङोश्च ॥ २९ ॥ विभाषेति निवृत्तम् । प्यायः पीत्येतच्चशब्देना नुकृष्यते । लिटि यङि च परतः प्यायः पीत्ययमादेशो भवति । आपिप्ये । आपिप्याते । आपिप्यिरे । परत्वात् पीभावे कृते पुनःप्रसङ्गविज्ञानाद् द्विर्वचनमनेकाच इति यत्त्वादेशः । यङि । आपेपीयते । आपेपीयेते । आपेपीयन्ते ॥ विभाषा श्वेः ॥ ३० ॥ लिङ्यङोरिति वर्तते संप्रसारणमिति च । लिटि यङि च श्वयतेर्धातो- र्विभाषा संप्रसारणं भवति । शुशाव । शिश्व्वाय । शुशुवतुः । शिश्वियतुः । यङि । शोशूयते । शेश्वीयते । तदत्र यदि संप्रसारणमप्राप्तं विभाषा विधी- यते लिटि तु किति यजादित्वाद् नित्यं प्राप्तं तत्सर्वत्र विकल्पेन भवतीत्ये- वोभयत्र विभाषा । यदा च धातोर्न भवति तदा नित्यमभ्यासस्योभयेषामित्य- भ्यासस्यापि न भवति ॥ णौ च संश्चङोः ॥ ३१ ॥ विभाषा श्वेरिति वर्तते । सन्यरे चङ्परे च णौ परतः श्वयतेर्धातोर्र्वि- भाषा संप्रसारणं भवति । शुशावयिषति । शिश्व्वाययिषति । चङि । अशूशु- वत् । अशिश्वयत् । संप्रसारणं संप्रसारणाश्रयं च बलीयो भवतीति वचना- दन्तरङ्गमपि वृद्धादिकं संप्रसारणेन बाध्यते । कृते तु संप्रसारणे वृद्धिरवादे- शश्च । तत णोः पुयन्ज्यपरेत्येतद्वचनं ज्ञापकं णौ कृतस्थानिवद्भावस्येति स्थानिवद्भावात् शुशब्दो द्विरुच्यते ॥