काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 499, कुल 828 में से
संदर्भ में पढ़ें४९८ काशिका ॥ ६ ॥ १ ॥ विच्च्युषे । च्युङ् गतावित्यस्य धातोर्लिटि सेशब्दे ऽभ्यासस्य संप्रसारणमनिट् च निपातनात् । विच्च्युषे । चुच्युविष इति भाषायाम् । तित्याज । त्यज हानावित्य- त्स्य धातोर्लित्यभ्यासस्य संप्रसारणं निपात्यते । तित्याज । तत्याजेति भाषा- याम् । श्राता इति । श्रीञ् पाकइत्येतस्य धातोर्निष्ठायां श्राभावः । श्रातास्त- इन्द्रसोमाः । श्रितमिति । तस्यैव श्रीणातेर्ह्रस्वत्वम् । सोमो गौरी अधिश्रितः । श्रिता नो गृहाः । अनयोः श्राभावश्रिभावयोर्विषयविभागमिच्छन्ति । सोमेषु बहुषु श्राभाव एव । अन्यत्र श्रिभाव इति । सोमादन्यत्र क चिदेकस्मिन्नपि श्राभावो दृश्यते । यदि श्रातो जुहोतन । तस्य श्राता इति बहुवचनस्याविव- क्षितत्वादुपसंग्रहो द्रष्टव्यः । आशीराशीर्त्ते इति । तस्यैव श्रीणातेराङ्पूर्वस्य क्विपि निष्ठायां च शीरादेशः निष्ठायाश्च नत्वाभावो निपातनात् । तामाशीरा दुह- न्ति । आशीर्त्ते ऊर्जम् । क्षीरैर्मन्थत आशीर्त्तः ॥ न संप्रसारणे संप्रसारणम् ॥ ३७ ॥ संप्रसारणे परतः पूर्वस्य यणः संप्रसारणं न भवति । व्यध । विद्धः । व्यच । विचित्रः । व्येञ् । संवीतः । एकयोगलक्षणमपि संप्रसारणमत इत एव वच- नात्प्रथमं परस्य यणः क्रियते । पूर्वस्य च प्रसक्तं प्रतिषिध्यते । संप्रसारणमिति वर्त्तमाने पुनः संप्रसारणग्रहणं विदेशस्थस्यापि संप्रसारणस्य प्रतिषेधो यथा स्या- दिति । श्वयुवमघोनामतद्धिते । यूनः । यूना । संप्रसारणग्रहणसामर्थ्यादेव पूर्वस्य प्रतिषेधे वक्तव्ये सवर्णदीर्घत्वमेकादेशो न स्थानिवद्भवति । सति वा स्थानिवत्त्वे व्यवधानमेतावदाश्रीयिष्यते ॥ ऋचि त्रेरुत्तरपदादिलोपश्छन्दसि ॥ * ॥ ऋचि परतःत्रेः संप्रसारणं भवति, उत्तरपदादिलोपश्च छन्दसि विषये । तिस्र ऋचो यस्मिन् तत् तृचं सूक्तं, तृचं साम । ऋक्पूरब्धूः पथामानक्षदिति समासान्तः । छन्दसीति किम् । त्र्यृचं कर्म ॥ रयेर्मतौ बहुलम् ॥ * ॥ रयिशब्दस्य छन्दसि विषये मतौ परतो बहुलं संप्रसारणं भवति । आ रेवानेतु नो विशः । न च भवति । रयिमान्पुष्टिवर्द्धनः ॥ लिटि वयो यः ॥ ३८ ॥ न संप्रसारणमित्यनुवर्त्तते । लिटि परतो वतो यकारस्य संप्रसारणं न भवति । उवाय । ऊयतुः । ऊयुः । लिड्ग्रहणमुत्तरार्थम् ॥ वश्चास्यान्यतरस्यां किति ॥ ३९ ॥ [L30: अस्य वयो यकारस्य किति लिटि परतो वकारादेशो भवत्यन्यतर- स्याम् । ऊवतुः । ऊवुः । ऊयतुः । ऊयुः । कितीति किम् । उवाय । उवयिथ ॥ व्येञः ॥ ४० ॥