काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 500, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 500
॥ काशिका ॥ ६ ॥ १ ॥ ४९९ लिटीत्यनुवर्तते । वेञ् तन्तुसंतानइत्यस्य धातोर्लिटि परतः संप्रसारणं न भवति । ववौ । ववतुः । ववुः । किति यजादित्वाद् धातोः प्राप्तमकि- त्यपि लिट्यभ्यासस्योभयेषामित्यभ्यासस्यात उभयं प्रतिषिध्यते ॥ ल्यपि च ॥ ४१ ॥ वेञ इत्यनुवर्तते । ल्यपि च परतो वेञः संप्रसारणं न भवति । प्रवाय । उपवाय । पृथग्योगकरणमुत्तरार्थम् ॥ ज्याश्च ॥ ४२ ॥ ल्यपीत्येव । ज्या वयोहानिरित्यस्य धातोर्ल्यपि परतः संप्रसारणं न भवति । प्रज्याय । उपज्याय ॥ व्यश्च ॥ ४३ ॥ ल्यपीत्येव । व्येञ् संवरणादित्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति । प्रव्याय । उपव्याय । योगविभाग उत्तरार्थः ॥ विभाषा परेः ॥ ४४ ॥ [L1