भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 501, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 501

५०० ॥ काशिका ॥ ६ । १ ॥ स्फरतिस्फुलत्योर्घञि ॥ ४७ ॥ आदेच इति वर्तते । स्फुर स्फुल चलनेत्येतयोर्द्धात्वोरेचः स्थाने घञि परत आकारादेशो भवति । विस्फारः । विस्फालः । विष्कारः । विष्फालः । स्फुरतिस्फुलत्योर्निर्निर्विभ्य इति वा षत्वम् ॥ क्रीङ्जीनां णौ ॥ ४८ ॥ डुक्र‍ीञ् द्रव्यविनिमये, इङ् अध्ययने, जि जये इत्येतेषां धातूनामेचः स्थाने णौ परत आकारादेशो भवति । क्रापयति । अध्यापयति । जापयति ॥ सिध्यतेरपारलौकिके ॥ ४९ ॥ णावितिवर्त्तते । षिधु हिंसासंराद्ध्योरित्यस्य धातोरपारलौकिकेऽर्थे वर्त्तमा- नस्यैचः स्थाने णौ परत आकारादेशो भवति । अन्नं साधयति । यामं साधयति । अपारलौकिकइति किम् । तपस्तापसं सेधयति । स्वान्येवैनं कर्माणि सेधयन्ति । अत्र हि सिध्यतिः पारलौकिके ज्ञानविशेषे वर्तते । तापसः सिध्यति । ज्ञानविशे- षमासादयति । सं तपः प्रयुङ्क्ते । स च ज्ञानविशेषउत्पन्नः परलोके जन्मान्तरे फलमभ्युदयलक्षणमुपसंहरन् परलोकप्रयोजनो भवति । इह कस्मान्न भवति । अन्नं साधयति । ब्राह्मणेभ्यो दास्यामीति । सिधेरत्रार्थो निष्पत्तिः । तस्याः प्रयोज- नमन्नम् । तस्य यद्दानं तत्पारलौकिकम्, न पुनः सिद्धिरैवेति न चात्यं पर्युद- स्यते । साक्षात्परलोकप्रयोजने च सिद्ध्यर्थे कृतावकाशं वचनमेवं विषयं नावगाहते। सिध्यतेरिति श्यना निर्देशः षिधु गत्यामित्यस्य भौवादिकस्य निवृत्त्यर्थः ॥ मीनातिमिनोतिदीङां ल्यपि च ॥ ५० ॥ आदेच उपदेशेऽति वर्तते । मीञ् हिंसायाम्, डुमिञ् प्रक्षेपणे, दीङ् क्षये, इत्येतेषां धातूनां ल्यपि विषये चकारादेचश्च विषये उपदेशएव प्राक्प्रत्य- योत्पत्तेरलोन्त्यस्य स्थाने आकारादेशो भवति । प्रमाता । प्रमातव्यम् । प्रमा- तुम् । प्रमाय । निम्माता । निम्मातुम् । निम्मातव्यम् । निम्माय । उपदाता । उप- दातव्यम् । उपदातुम् । उपदाय । उपदेशएवात्वविधानान्निर्वाणान्तलक्षणः प्रत्ययो न भवति । आकारान्तलक्षणश्च भवति । उपदायो वर्तते । ईषदुपदा- नमिति घञ्युचौ भवतः ॥ विभाषालीयतेः ॥ ५१ ॥ ल्यपीति वर्तते, आदेच उपदेशेऽति च । लीङ् श्लेषणइति दिवादिः ली श्लेषणइति क्र्यादिस्तयोरुभयोरपि यका निर्देशः स्मर्यते । लीयतेर्द्धातो- र्ल्यपि च एचश्च विषये उपदेशएवालोन्त्यस्य स्थाने विभाषा आकारादेशो भवति । विलाता । विलातुम् । विलातव्यम् । विलाय । विलेता । विलेतुम् ।