काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 504, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ । १ ॥ ५०३
अजादौ तद्धिते शिरसः शीर्षंश्चादेशो भवति । हस्तिशिरसो ऽपत्यं, हास्तिशीर्षिः * । बाह्वादिभ्यश्चेति इञ् । स्थूलशिरस इदं स्थौलशी- र्षम् । शीर्षन्भावे हि ऋचिति प्रकृतिभावः स्यात् । हास्तिशीर्षिशब्दात् स्त्रिया- मिञो ऽणिञोरनार्षयोः ष्यङादेशे कृते शीर्षस्य शिरःशब्दग्रहणेन ग्रहणात् शीर्षंश्चादेशः प्राप्नोति । तत्र प्रकृतिभावे सति हास्तिशीर्ष्येत्यनिष्टं रूपं स्यात् । इष्यते तु हास्तिशीर्येति तत्कथं, कर्त्तव्योत्र यत्नः । अणिञन्ताद् वा परः प्रत्ययः ष्यङ्ङाश्रयितव्यस्तत्र यस्येतिलोपस्य स्थानिवद्भावाद् व्यवधानम् ॥ पद्धन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नास- ञ्छस्प्रभृतिषु ॥ ६३ ॥ पाद दन्त नासिका मास हृदय निशा असृज् यूष दोष यकृत् शकृत् उदक आसन् इत्येतेषां शब्दानां स्थाने शस्प्रभृतिप्रत्ययेषु परतः पद् दत् नस् मास् हृत् निश् असन् यूषन् दोषन् यकन् शकन् उदन् आसन् इत्येते आदेशा यथासंख्यं भव- न्ति । पद् । निपदर्शचतुरो जहि । पदा वर्षाय गोदुहम् । पादस्य पत् । दत् । या दतो धावति तस्यै श्यावदन् । नस् । सूकरस्त्वखनन्नसा । मास् । मांसि त्वा पश्यामि चक्षुषा । हृत् । हृदा पूतेन मनसा जातवेदसम् । निश् । अमावास्यायां निशि यजेत । असन् । असिक्तोद्यावरोहति । यूषन् । या पात्राणि यूष्णा आसेचनानि । दोषन् । यत्ते दोषो दोर्भागयम् । यकन् । यक्नोवद्याति । शकन् । शक्नोवद्याति उदन् । उद्नो दिव्यस्य नावा ते । आसन् । आसनि किं लभे मधूनि । शस्प्रभृतिष्विति किम् । पादौ ते प्रतिपीड्यौ नासिके ते कृशे । के चिदत्र छन्दसीत्यनुवर्त्तयन्ति । अपरे पुन- रविशेषे णેચ્છन्ति । तथा हि । भाषायामपि पदादयः शब्दाः प्रयुज्यन्ते । व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्त्तितस्य च । व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ॥ इत्येवमादयः । अन्यतरस्यामित्येतदनुवर्त्तयन्ति । तेन पादादयोऽपि प्रयुज्यन्ते । शस्प्रभृतिष्विति प्रकारे प्रभृतिशब्द इति । शला दोषणी इत्यत्रापि दोषन्नादेशो भवति ॥ पदादिषु मांस्पृतस्नूनामुपसंख्यानम् ॥ * ॥ मांस पृतना सानु इत्येतेषां स्थाने यथासंख्यं मांस् पृत् स्नु इत्येते आदेशा भवन्ति । मांस्प- चन्या उखायाः । मांसपचन्या इति प्राप्ते । पृत्सु मर्त्यम् । पृतनासु मर्त्यमिति । प्राप्ते । न ते दिवो न पृथिव्या अधि स्नुषु । अधिषानुष्विति प्राप्ते ॥ नस् नासिकाया यत्तत्सुट्सु ॥ * ॥ नासिकाया नस्भावो वक्तव्यो यत् तस् सुट् इत्येतेषु परतः । नस्यम् । नस्तः । नस्तुद्रः ॥ यति वर्णनगरयोर्नेति वक्त- व्यम् ॥ * ॥ नासिक्यो वर्णः । नासिक्यं नगरम् ॥
- पैलुशीर्षिरित्यधिकं पुस्तकान्तरे ।