काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 503, कुल 828 में से
संदर्भ में पढ़ेंस्मिङ् ईषद्वहसनइत्यस्य धातोर्हेतुभयेऽर्थे णौ परतो नित्यमाकारादेशो भवति । मुण्डो विस्मापयते । जटिलो विस्मापयते । भयइति किम् । कुञ्चिकयेनं वि- स्मापयति । भयशब्देन हेत्वर्थसामान्यादिह स्मयतेरर्थो ऽभिधीयते । नहि मुख्ये भये स्मयतेर्वृत्तिरस्ति ॥ सृजिदृशोर्झल्यमकिति ॥ ५८ ॥ सृज विसर्गे, दृशिर् प्रेक्षणे, इत्येतयोर्धात्वोर्झलादावकिति प्रत्यये परतो ऽमागमो भवति । स्रष्टा । स्रष्टुम् । स्रष्टव्यम् । द्रष्टा । द्रष्टुम् । द्रष्टव्यम् । लघूपधगुणापवादोयममागमः । अस्राक्षीत् । अद्राक्षीत् । सिचि वृद्धिरमि कृते भवति पूर्वे तु बाध्यते । झलीति किम् । सर्जनम् । दर्शनम् । अकितीति किम् । सृष्टः । दृष्टः । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानादिह न भवति । रज्जुसृड्भ्यां देवदृड्भ्यामिति ॥ अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् ॥ ५९ ॥ उपदेशइति वर्तते, झल्यमकितीति च । उपदेशे ऽनुदात्तस्य धातोर्ऋ- कारोफ्धस्य झलादावकिति प्रत्यये परतो ऽन्यतरस्याममागमो भवति । त्रप्ता । तर्पिता । तप्ता । दृप्ता । दर्प्ता । दर्पिता । तृप प्रीणने तृप हर्षखमोचनयोः, इत्येतौ रधादी धातू तयोरिडागमो रधादिभ्यश्चेति विकल्प्यते । अनुदात्तो- पदेशः पुनरमर्य एव । अनुदात्तस्येति किम् । वर्ता । वर्तितुम् । वर्तितव्यम् । वृतु उट्टामनरत्ययमुदात्तोपदेश ऊदित्त्वाच्चास्येड् विकल्प्यते । चर्दुपधस्येति किम् । भेत्ता । छेत्ता । झलीत्येव । तर्प्यणम् । दर्प्यणम् । अकितीत्येव । तृप्तः । दृप्तः ॥ शीर्षंश्छन्दसि ॥ ६० ॥ शीर्षन्निति शब्दान्तरं शिरःशब्देन समानार्थे छन्दसि विषये निपात्यते न पुनरयमादेशः शिरःशब्दस्य सोऽपि हि छन्दसि प्रयुज्यत एव । शीर्ष्णा हि तत्र सोमं क्रीतं हरन्ति । यत्ते शीर्ष्णो दौर्भाग्यम् । छन्दसीति किम् । शिरः ॥ ये च तद्धिते ॥ ६१ ॥ शीर्षन्निति वर्तते । आदेशोऽयमिष्यते स कथं तद्धितइति हि परं निमि- त्तमुपादीयते स तदनुरूपां प्रकृतिं शिरःशब्दमाक्षिपति । यकारादौ तद्धिते परतः शिरःशब्दस्य शीर्षन्नादेशो भवति । शीर्षेण्यो हि मुख्यो भवति । शीर्षेण्यः स्वरः । शिरसि भव इति शरीरावयवाच्चेति यत् । ये चाभावकर्मणोरिति प्रकृतिभावः । तद्धितइति किम् । शिर इच्छति शिरस्यति ॥ वा केशेषु ॥ * ॥ शिरसः शीर्षन्नादेशो वक्तव्यः । शीर्षण्याः केशाः । शिरस्याः केशाः ॥ अचि शीर्षः ॥ ६२ ॥