काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 508, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ १ ॥ ५०७ अचि परत इको यणादेशो भवति । दध्यत्र । मध्वत्र । कर्त्रर्थम् । हर्तृर्थम् । लाकृतिः ॥ इकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थं यणादेशो वक्तव्यः ॥ * ॥ भो३ इ इन्द्रम् । भो३ यिन्द्रम् । अचीति चायमधिकारः संप्रसारणाच्चेति यावत् ॥ एचो ऽयवायावः ॥ ७८ ॥ एचः स्थाने ऽचि परतो ऽय् अव् आय् आव् इत्येते आदेशा यथासंख्यं भवन्ति । चयनम् । लवनम् । चायकाः । लावकः । कयते । व्ययते । यावग्रहणादिषु ॥ वान्तो यि प्रत्यये ॥ ७९ ॥ योयमेचः स्थाने वान्तादेश ओकारस्य अव् औकारस्याव् स यकारादौ प्रत्यये परतो भवति । बाभ्रव्यः । माण्डव्यः । शङ्कव्यं दारु । पिचव्यः कार्पासः । नाव्यो ह्रदः । वान्त इति किम् । रायमिच्छति रैयति । यीति किम् । गोभ्याम् । नौभ्याम् । प्रत्ययइति किम् । गोयानम् । नौयानम् ॥ गोर्यूतौ छन्दसि ॥ * ॥ गोशब्दस्य यूतौ परतश्छन्दसि विषये वान्तादेशो वक्तव्यः । आनो मित्रावरुणा घृतेर्गव्यूतिमुक्षतम् । छन्दसीति किम् । गोयूतिः ॥ अध्वपरिमाणे च ॥ * ॥ गोर्यूतौ परतो वान्तादेशो वक्तव्यः । गव्यूतिमात्रमध्वानं गतः ॥ धातोस्तन्निमित्तस्यैव ॥ ८० ॥ एच इति वर्तते । वान्तो यि प्रत्ययइति च । धातोर्य एच तन्निमित्तो यकारादिप्रत्ययनिमित्तस्तस्य यकारादौ प्रत्यये परतो वान्तादेशो भवति । लव्यम् । पव्यम् । अवश्यलाव्यम् । अवश्यपाव्यम् । धातोरिति किम् । प्राति- पदिकस्य नियमो मा भूत् । तत्र को दोषः । बाभ्रव्य इत्यत्रैव स्यात् । इह न स्याद् गव्यं नाव्यमिति । तन्निमित्तस्येति किम् । अतन्निमित्तस्य मा भूत् । ओ- यते । औयत । लोयमानः । पौयमानिः । अत इञ् । एवकारकरणं किम् । धात्ववधारणं यथा स्यात् तन्निमित्तावधारणं मा भूदिति । तन्निमित्तस्य हि धातोश्चाधातोश्च भवति । बाभ्रव्यः । अवश्यलाव्यम् । लव्यम् ॥ क्षय्यजय्यौ शक्यार्थे ॥ ८१ ॥ क्षि जि इत्येतयोर्द्धात्वोर्यति प्रत्यये परतः शक्यार्थे गम्यमाने एकार- स्यायादेशो निपात्यते । शक्यः क्षेतुं, क्षय्यः । शक्यो जेतुं, जय्यः । शक्यार्थ- इति किम् । क्षेयं पापम् । जेयो वृषलः ॥ क्रय्यस्तदर्थे ॥ ८२ ॥ क्रीञ्धातोस्तदर्थे क्रयार्थे यत्स्मिन्नभिधेये यति प्रत्यये परतो ऽया- देशो निपात्यते । क्रय्यो गौः । क्रय्यः कम्बलः । क्रयार्थे यः प्रसारितः स उच्यते । तदर्थइति किम् । क्रेयं नो धान्यं न चास्ति क्रय्यम् ॥