काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 513, कुल 828 में से
संदर्भ में पढ़ें५१२ ॥ काशिका ॥ ६ । १ ॥ भवति। पटत् इति, पटिति। घटत् इति, घटिति। झटत् इति, झटिति। कमित् इति, कमिति। अव्यक्तानुकरणस्येति किम्। जगत् इति, जगदिति। अत इति किम्। मरट् इति, मरडिति। इताविति किम्। पटत् अत्र, पट- दत्र॥ अनेकाच इति वक्तव्यम्॥ * ॥ इह मा भूत्। सत् इति, सदिति। कथं घटदिति गम्भीरमम्बुदैनैदितमिति। दकारान्तमेतदनुकरणं द्रष्टव्यम्॥ नाम्रेडितस्यान्त्यस्य तु वा ॥ ९९ ॥ अव्यक्तानुकरणास्याम्रेडितस्य यो ऽच्छब्द इतौ तस्य पररूपं न भवति तस्य योऽन्त्यस्तकारस्तस्य वा भवति। पटत्पटदिति। पटत्पटेति करोति। नित्य- वीप्सयोरिति द्विवचनम्। यदा तु समुदायानुकरणं तदा भवत्येव पूर्वेण पररूपं पटत्पटेति करोति॥ नित्यमाम्रेडिते डाचि ॥ १०० ॥ अव्यक्तानुकरणास्यातो ऽन्त्यस्येति चानुवर्तते। डाच्परं यदाम्रेडितं तस्मि- न्पूर्वस्याव्यक्तानुकरणास्याच्छब्दस्य योऽन्त्यस्तकारस्तस्य पूर्वस्य परस्य चाडाच्य वर्णस्य नित्यं पररूपमेकादेशो भवति। पटपटा करोति। दमदमा करोति *। पटदित्यस्मादव्यक्तानुकरणादिति डाचि विहिते डाचि बहुलमिति द्विवचनं तच्च टिलोपात्पूर्वमेवेष्यते॥ अकः सवर्णे दीर्घः ॥ १०१ ॥ अकः सवर्णे ऽचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति। दण्डा- ग्रम्। दधीन्द्रः। मधूदके। होतॄश्यः। अक इति किम्। अग्नये। सवर्णेइति किम्। दध्यत्र। अचीत्येव। कुमारि शेते। नाज्झलावित्यत्र यदजिति प्रत्या- हारग्रहणं तत्र ग्रहणकशास्त्रस्यानभिनिवृत्तत्वात्सवर्णा न गृह्यन्त इति सवर्ण- त्वमीकारशकारयोरप्रतिषिद्धम्॥ सवर्णदीर्घत्वे ऋति ॠ वा वचनम् ॥ * ॥ ऋति सवर्णे परभूते तत्र ॠ वा भवतीति वक्तव्यम्। होतृ ऋकारः, होतॄ- कारः। यदा न ॠ तदा दीर्घ एव होतॄकारः॥ ऌति ॡ वा वचनम् ॥ * ॥ ऌति सवर्णे परतो ॡ वा भवतीति वक्तव्यम्। होतृ ऌकारः। होतॡकारः। होतॄकारः। ॠकारऌकारयोः। सवर्णविधिरुक्तो दीर्घपक्षे तु समुदायान्तरतमस्य सवर्णस्य दीर्घस्याभावात् ॠकारः क्रियते॥ प्रथमयोः पूर्वसवर्णः ॥ १०२ ॥ अक इति दीर्घ इति वर्तते। प्रथमाशब्दो विभक्तिविशेषे रूढस्तत्सा- हचर्यात् द्वितीयापि प्रथमेत्युक्ता। तस्यां प्रथमायां द्वितीयायां च विभक्तावचि अकः पूर्वपरयोः स्थाने पूर्वसवर्णदीर्घ एकादेशो भवति। अग्नी। वायू। वृक्षाः।
- मटमटाकरोतीत्यधिकं पुस्तकान्तरे