काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 514, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ १ ॥ ५१३ पृक्षाः । वृक्षात् । प्लक्षात् । अतो गुण इति यदकारे पररूपं तदकः सवर्णे दीर्घ- त्वमेव बाधते, न तु पूर्वसवर्णदीर्घत्वं, पुरस्तादपवादा अनन्तरान्विधीन्बाध- न्तइति । अचीत्येव । वृक्षः । प्लक्षः । अक इत्येव । नावौ । पूर्वसवर्णग्रहणं किम् । अग्नी इत्यत्र पक्षे परसवर्णो मा भूत् । दीर्घग्रहणं किम् । त्रिमात्रे स्थानिनि त्रिमात्रादेशनिवृत्त्यर्थम् ॥ तस्माच्छसो नः पुंसि ॥ १०३ ॥ तस्मात्पूर्वसवर्णदीर्घादुत्तरस्य शसो ऽवयवस्य सकारस्य पुंसि नकारा- देशो भवति । वृक्षान् । अग्नीन् । वायून् । कर्तॄन् । हर्तॄन् । षण्डकान् । स्थू- रान् । बारकान्पश्य । सर्वएते पुल्लिङ्गविशिष्टं स्वार्थं प्रतिपादयन्ति । इह तु चञ्चेव चञ्चा । लुम्मनुष्यइति कनो लुपि कृते लुपि युक्तवद् व्यक्तिवचनेइति पुंसोपि स्त्रीलिङ्गता, तेन नत्वं न भवति, चञ्चाः पश्य, वधिकाः पश्येति । तस्मादिति किम् । शतांश्चरतो गाः पश्य । शस इति किम् । वृक्षाः । प्लक्षाः । पुंसीति किम् । धेनूः । बह्वीः । कुमारीः ॥ नादिचि ॥ १०४ ॥ अवर्णादिचि पूर्वसवर्णदीर्घो न भवति । वृक्षौ । प्लक्षौ । खट्वे । कुण्डे । आदिति किम् । अग्नी । इचीति किम् । वृक्षाः ॥ दीर्घाज्जसि च ॥ १०५ ॥ दीर्घाज्जसि इचि च परतः पूर्वसवर्णदीर्घो न भवति । कुमार्यौ । कुमा- र्यः । ब्रह्मबन्ध्वौ । ब्रह्मबन्ध्वः ॥ वा छन्दसि ॥ १०६ ॥ दीर्घाच्छन्दसि विषये जसि च इचि च परतो वा पूर्वसवर्णदीर्घो न भव- ति । मातीश्चतस्रः । पिण्डीः । माहतीश्चतस्रः । पिण्ड्यः । वाराही । उपा- नही । वाराह्यौ । उपानह्यौ ॥ अमि पूर्वः ॥ १०७ ॥ अक इत्येव । अमि परतो ऽकः पूर्वपरयोः स्थाने पूर्व एकादेशो भवति । वृक्षम् । प्लक्षम् । अग्निम् । वायुम् । पूर्वग्रहणं किम् । पूर्व एव यथा स्यात्, पूर्वसवर्णो ऽन्तरतमो मा भूदिति । कुमारीमित्यत्र हि त्रिमात्रः स्यात् । वा छन्दसीत्येव । शम्यँ च । शम्यं च । गौर्यँ च । गौर्यं च ॥ संप्रसारणाच्च ॥ १०८ ॥ पूर्व इत्येव । संप्रसारणादचि परतः पूर्वपरयोः स्थाने पूर्व एकादेशो भवति । यजि । इष्टम् । वपि । उप्तम् । ग्रहि । गृहीतम् । संप्रसारणविज्ञान- ३३