काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 519, कुल 828 में से
संदर्भ में पढ़ें५१२ ॥ काशिका ॥ ६ । १ ॥ अप्लुतवदुपस्थिते ॥ १२९ ॥ उपस्थितं नामानार्षे इतिकरणः समुदायादवच्छिद्य पदं येन स्वरूपे ऽवस्थाप्यते तस्मिन्परतो ऽप्लुतवद्भवति। प्लुतकार्यं प्रकृतिभावं न करोति। सुश्लोका३ इति, सुश्लोकेति। सुमङ्गला३ इति, सुमङ्गलेति। वत्करणं किम्। अप्लुतइत्युच्यमाने प्लुत एव प्रतिषिध्यते। तत्र को दोषः। प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात्। अग्नी३ इति। वायू३ इति॥ ई३ चाक्रवर्मणस्य ॥ १३० ॥ ई३ कारः प्लुतो ऽवि परतश्चाक्रवर्मणस्याचार्यस्य मतेनाप्लुतवद्भवति। अस्तु हीत्यब्रवीत्। अस्तु ही३ इत्यब्रवीत्। चिनु हीद्रम्। चिनु ही३ इदम्। चाक्र- वर्मणग्रहणं विकल्पार्थं तदुपस्थिते निवृत्त्यर्थम् अनुपस्थिते प्राप्त्यर्थमित्युभयत्र विभाषेयम्। इकारादन्यत्राप्ययमप्लुतवद्भाव इष्यते। अशा३ दयम् अशेषम्॥ दिव उत् ॥ १३१ ॥ एङः पदान्तादतीत्यतः पदग्रहणमनुवर्तते। दिव इति प्रातिपदिकं गृह्यते न धातुः, सानुबन्धकत्वात्। दिवः पदस्य उकारादेशो भवति। दिवि कामो यस्य, द्युकामः। द्युमान्। विमलद्यु दिनम्। द्युभ्याम्। द्युभिः। निरनुबन्धकग्रहणादिह न भवति। अक्षद्यूभ्याम्, अक्षद्यूभिरिति। तपरकरण- मूठो निवृत्त्यर्थं द्युभ्यां द्युभिरिति। अत्र हि परत्वादूठ् प्राप्नोति। पदस्येति किम्। दिवौ। दिवः॥ एतत्तदोः सु लोपो ऽकोरनञ्समासे हलि ॥ १३२ ॥ एतत्तदौ यावककारौ नञ्समासे न वर्तेते तयोर्यः सुशब्दः यश्च तयोः सुशब्दो यस्तदर्थेन संबद्धस्तस्य संहितायां विषये हलि परतो लोपो भवति। एष ददाति। स ददाति। एष भुङ्क्ते। स भुङ्क्ते। एतत्तदोरिति किम्। यो ददाति। यो भुङ्क्ते। सुग्रहणं किम्। एतौ गावौ चरतः। अकोरिति किम्। एषको वदति। सको ददाति। तन्मध्यपतितस्तद्ग्रहणेन गृह्यतइति रूपभेदेपि साकच्कावेतत्तदावेव भवतः। अनञ्समासइति किम्। अनेषो ददाति। असो ददाति। उत्तरपदार्थप्रधा- नत्वादनञ्समासस्यैतत्तदोरेवात्र संबद्धः सुशब्दः। हलीति किम्। एषोत्र। सोऽत्र॥ स्यश्छन्दसि बहुलम् ॥ १३३ ॥ स्य इत्येतस्य छन्दसि हलि परतो बहुलं सोर्लोपो भवति। इषं स्य वाजी शिपणिं तुरण्यति ग्रीवायां बद्धो अपिकक्षआसनि। एष स्य ते मधुमां इन्द्र सोमः। न च भवति। यन्न स्यो निपतितः॥