काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 521, कुल 828 में से
संदर्भ में पढ़ें५२० ॥ काशिका ॥ ६ । १ ॥ भवति । तन्न नः संस्कृतम् । तन्न नः परिष्कृतम् । तन्न न उपस्कृतम् । समुदि- तमित्यर्थः ॥ उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु ॥ १३९ ॥ सतो गुणान्तराधानमाधिक्याय वृद्धस्य वा तादवस्थ्याय समीहा प्रति- यत्नः । विकृतमेव वैकृतम् । प्रज्ञादित्वादण् । गम्यमानार्थस्य वाक्यस्य स्वरूपे- णोपादानं वाक्यस्याध्याहारः । एतेष्वर्थेषु गम्यमानेषु करोतौ धातौ परत उपात् सुट् कात्पूर्वो भवति । प्रतियत्ने तावत् । एधोदकस्योपस्कुरुते । काष्ठगुडस्यो- पस्कुरुते । वैकृते । उपस्कृतं भुङ्क्ते । उपस्कृतं गच्छति । वाक्याध्याहारे । उप- स्कृतं जल्पति । उपस्कृतमधीते । एतेष्विति किम् । उपकरोति । किरतौ लवने ॥ १४० ॥ उपादित्येव । उपादुत्तरस्मिन्किरतौ धातौ लवनविषये सुट् कात्पूर्वो भवति । उपस्कारं मद्राका लुनन्ति । उपस्कारं काश्मीरका लुनन्ति । विक्षिप्य लुनन्तीत्यर्थः ॥ णमुलञ्च वक्तव्यः ॥ * ॥ लवन इति किम् । उपकिरति देवदत्तः ॥ हिंसायां प्रतेश्च ॥ १४१ ॥ किरतावित्येव । उपात्प्रतेश्चोत्तरस्मिन्किरतौ विषये सुट् कात्पूर्वो भव- ति । उपस्कीर्णं हं ते वृषल भूयात् । प्रतिस्कीर्णं हं ते वृषल भूयात् । तथा ते वृषल विक्षेपो भूयाद् यथा हिंसामनुबध्नातीत्यर्थः । हिंसायामिति किम् । प्रतिकीर्णम् ॥ अपाच्चतुष्पाच्छकुनिष्वालेखने ॥ १४२ ॥ किरतावित्येव । अपादुत्तरस्मिन्किरतौ चतुष्पाच्छकुनिषु यदालेखनं तस्मिन् विषये सुट् कात्पूर्वो भवति । अपस्करते वृषभो हृष्टः । अपस्करते कुक्कुटो भक्ष्यार्थी । अपस्करते श्वा चाश्रयार्थी । आलिख्य विक्षिपतीत्यर्थः । चतुष्पाच्छकुनिष्विति किम् । अपकिरति देवदत्तः ॥ हर्षजीविकाकुलायकरणे- ष्विति वक्तव्यम् ॥ * ॥ इह मा भूत् । अपकिरति श्वा ओदनपिण्डमाशितः ॥ हर्षजीविकाकुलायकरणेष्वेव किरतेरात्मनेपदस्योपसंख्यानम् ॥ * ॥ कुस्तुम्बुरूणि जातिः ॥ १४३ ॥ कुस्तुम्बुरूणीति सुट् निपात्यते जातिश्चेद्भवति । कुस्तुम्बुरुर्नौषधि- जातिः । धान्यकम् । तत्फलान्यपि कुस्तुम्बुरूणि । सूत्रनिर्देशे नपुंसकलिङ्गमवि- वक्षितम् । जातिरिति किम् । कुत्सितानि तुम्बुरूणि कुतुम्बुरूणि तुम्बुरुशब्दे- नात्र तिन्दुकीफलान्युच्यन्ते, समासेन तेषां कुत्सा ॥ अपरस्पराः क्रियासातत्ये ॥ १४४ ॥