भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 531, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 531

२३० ॥ काशिका ॥ ६ । १ ॥ सावेकाच इति ऊहिदम्पदाद्यप्सुमैद्युभ्य इति वा प्राप्तिः प्रतिषिध्यते । झलीति किम् । दिवा ॥ नृ चान्यतरस्याम् ॥ १८४ ॥ नृ इत्येतस्मात्परा झलादिर्विभक्तिरन्यतरस्यां नोदात्ता भवति । नृभ्याम् । नृभिः । नृभ्यः । नृषु । झलीत्येव । न्रा । न्रे ॥ तित्स्वरितम् ॥ १८५ ॥ तित्स्वरितं भवति । सवन्ताव्द्यत् । चीकीर्यम् । जिहीर्यम् । ऋहलो- र्ण्यत् । कार्यम् । हार्यम् । प्रत्ययाद्युदात्तस्यापवादः ॥ तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदा- त्तमह्वन्विङोः ॥ १८६ ॥ तासेरनुदात्तेतो ङितो ऽकारान्तोपदेशाच्च शब्दात्परं लसार्वधातुकम- नुदात्तं च भवति ह्वङ् इन् इत्याभ्यां परं वर्जयित्वा । तासेस्तावत् । कर्त्ता । कर्त्तारौ । कर्त्तारः । प्रत्ययस्वरापवादोयम् । अनुदात्तेतः । आस । आस्ते । वस । वस्ते । ङित् । सूङ् । सूते । शीङ् । शेते । अदुपदेशात् । तुदतः । नुदतः । पचतः । पठतः । अनुबन्धस्यानैकान्तिकत्वादकारान्तोपदेशएव शप् । पवमानः । यजमानः । यद्यत्र मुक् अकारमात्रस्य स्यात् तदा लसार्वधातुक- मदुपदेशादनन्तरमिति सिद्धो निघातः । अथाकारान्तस्याङ्गस्य, तथापि लसा- र्वधातुकानुदात्तत्वे कर्त्तव्ये बहिरङ्गत्वादसिद्ध इति सिद्धम् । चित्स्वरोप्यनेन लसार्वधातुकानुदात्तत्वेन परत्वाद्बाध्यते । तास्यादिभ्य इति किम् । चिनुतः । चिन्वन्ति । ङिदयं श्नुः पूर्वस्य कार्यं प्रति न तु परस्य । उपदेशग्रहणं किम् । इह च यथा स्यात् पचावः पचाम इति । इह च मा भूत् हतो हथ इति । लग्रहणं किम् । कतीह पवमानाः । सार्वधातुकमिति किम् । शिश्ये । शिश्याते । शिश्यिरे । अह्वन्विङोरिति किम् । हुते । यदधीते ॥ आदिः सिचो ऽन्यतरस्याम् ॥ १८७ ॥ उदात्त इति वर्तते । सिजन्तस्यान्यतरस्यामादिरुदात्तो भवति । मा हि कार्ष्टाम् । मा हि काष्टाम् । एकोत्राद्युदात्तः । अपरो ऽन्तोदात्तः । मा हि लाविष्टाम् । २ । एकोत्राद्युदात्तः । अपरो मध्योदात्तः । सिचश्चित्- त्त्वादिडागमानुदात्तत्वं हि बाध्यते ॥ सिच आद्युदात्तत्वे ऽनिटः पितः उदात्तत्वं वक्तव्यम् ॥ * ॥ मा हि कार्षम् । २ । अनिट इति किम् । मा हि लाविषम् । २ । मध्योदात्त एवाद्युदात्ताभावपक्षे भवति ॥ स्वपादिहिंसामच्यनिटि ॥ १८८ ॥