काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 530, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ १ ॥ ५२९
ह्रन्ताच्छन्दसि विषये नामुदात्तो भवति बहुलम् । देवसेनानामभिभ्र- ञ्जतीनाम् । बहूनां पिता । न च भवति नदीनां पारे जयन्तीनां मरुतः ॥ षट्त्रिचतुर्भ्यो हलादिः ॥ १७९ ॥ अन्तोदात्तादित्येतन्निवृत्तम् । षट्संज्ञकेभ्यस्त्रि चतुरित्येताभ्यां च परा हलादिर्विभक्तिरुदात्ता भवति । षण्णाम् । षड्भिः । षड्भ्यः । पञ्चानाम् । सप्तानाम् । त्रि । त्रिभिः । त्रिभ्यः । त्रयाणाम् । चतुर् । चतुर्भ्यः । चतुर्णा- म् । हलादिरिति किम् । चतस्रः पश्य ॥ झल्युपोत्तमम् ॥ १८० ॥ षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे यदुपोत्तममुदात्तं भवति । त्रिप्रभृतीनामन्त्यमुत्तमं तत्समीपे च यत्तदुपोत्तमम् । पञ्चभिस्तपस्तपति । सप्तभिः परान् जयति । तिसृभिश्च वहसे त्रिंशता । चतुर्भिः । झलीति किम् । पञ्चानाम् । सप्तानाम् । उपोत्तममिति किम् । षड्भिः । षड्भ्यः ॥ विभाषा भाषायाम् ॥ १८१ ॥ षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं भवति विभाषा भाषायां विषये । पञ्चभिः । २ । सप्तभिः । २ । तिसृभिः ।