काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 529, कुल 828 में से
संदर्भ में पढ़ें५२८ ॥ काशिका ॥ ६ ॥ १ ॥ उदात्तादित्येव । ददती । दधती । नाभ्यस्तानामादिरित्याद्युदात्तावेतो ॥ बृह- न्महतोश्चोपसंख्यानम् ॥ * ॥ बृहती । महती । बृहता । महता ॥ उदात्तयणो हल्पूर्वात् ॥ १७४ ॥ उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी अजादिर्या ऽसर्वनामस्था- नविभक्तिरुदात्ता भवति । कर्त्री । हर्त्री । प्रलवित्री । प्रसवित्री । कर्त्रे । हत्रे । प्रलवित्र्या । प्रसवित्र्या । तृजन्ता एते ऽन्तोदात्ताः । उदात्तयणं किम् । कर्त्री । हर्त्री । कर्त्रा । हत्रा । तृन्नन्तोयमाद्युदात्तः । हल्पूर्वादिति किम् । वहन्ति नावा ब्राह्मण्या । नकारग्रहणं च कर्तव्यम् ॥ * ॥ वाक्पत्नीयं कन्या ॥ नोङ् धात्वोः ॥ १७५ ॥ ऊङो धातोश्च य उदात्तयण् हल्पूर्वस्तस्मात्परा ऽजाद्यसर्वनामस्थान- विभक्तिर्नोदात्ता भवति । ब्रह्मबन्ध्वा । ब्रह्मबन्ध्वे । वीरबन्ध्वा । वीरबन्ध्वे । ऊङ् प्रत्ययस्वरेणोदात्तः । तेन सह य एकादेशः सोप्युदात्त इति उदात्तयण्का- रस्तस्मादुदात्तत्वे प्रतिषिद्धे उदात्तस्वरितयोर्यणः । स्वरितोनुदात्तस्येति विभ- क्तिः स्वर्यते । धातुयणः खल्वपि । सङ्खल्वा । सङ्खल्वे । खलप्वे । क्विबन्तस्य कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तस्य ओः सुपि यणादेशः ॥ ह्रस्वनुड्भ्यां मतुप् ॥ १७६ ॥ अन्तोदात्तादित्येव । ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुब् उदात्तो भवति । अग्निमान् । वायुमान् । कर्तृमान् । हर्तृमान् । नुटः खल्वपि । अक्षवन्तः । शीर्ष्वन्तः । अन्तोदात्तादित्येव । वसुमान् । वसुशब्द आद्युदात्तस्तस्मान्मतुप् अनुदात्त एव भवति । यत्र च स्वरविधौ व्यञ्जनमविद्यमानवदित्येषा परिभाषा नाश्रीयते नुड्ग्रहणात् तेन महत्वानित्यत्र न भवति ॥ रेशब्दाच्च मतुप उदा- त्त्वं वक्तव्यम् ॥ * ॥ वारेवान् ॥ रेश्च प्रतिषेधो वक्तव्यः ॥ * ॥ चित्रतीर्या- न्यानुवाक्या भवन्तीति ॥ नामन्यतरस्याम् ॥ १७७ ॥ ह्रस्वग्रहणमनुवर्तते मतुब्ग्रहणं च । तेन मतुपा ह्रस्वो विशेष्यते मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तादन्यतरस्यां नाम् उदात्तो भवति । अग्नीनाम् । वायूनाम् । कर्तॄणाम् । मतुपा ह्रस्वविशेषणं किम् । भूतपूर्वेपि ह्रस्वे यथा- स्यात् । अन्यथा हि साम्प्रतिकएव स्यात् तिसृणां चतसृणामिति । सनुट्कस्य ग्रहणं किम् । धेन्वाम् । शक्त्याम् । उदात्तयणो हल्पूर्वादित्ययमन्तोदात्तः । ह्रस्वादित्येव । कुमारीणाम् । अन्तोदात्तादित्येव । त्रपुषाम् । वसूनाम् ॥ ङ्याप्छन्दसि बहुलम् ॥ १७८ ॥