काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 528, कुल 828 में से
संदर्भ में पढ़ेंद्भावेन नित्यसमासस्तत्र भवत्येव विकल्पः। यद्वाचा ब्राह्मणेन, सुवाचा ब्राह्मणेनेति। बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदान्तोदात्तत्वं भवति ॥ अञ्चेश्छन्दस्यसर्वनामस्थानम् ॥ १७० ॥ अञ्चेः परा ऽसर्वनामस्थानविभक्तिरुदात्ता भवति छन्दसि विषये। इन्द्रो दधीचो अस्थभिः। धाविति पूर्वपदान्तोदात्तत्वं प्राप्तम्। तृतीयादि- रिति वर्तमाने शसोऽपि परिग्रहार्थमसर्वनामस्थानग्रहणम्। इहापि यथा स्यात् प्रतीचो बाहूनतिभङ्ग्ध्वेवामिति ॥ ऊडिदम्पदाद्यप्पुम्रैदिभ्यः ॥ १७१ ॥ ऊठ् इदम् पदादि अप् पुम् रै दिव् इत्येतेभ्यो ऽसर्वनामस्थानविभक्ति- रुदात्ता भवति। ऊठ्। पृष्ठौहः। पृष्ठौहा। ऊठ्युपधायहणं कर्तव्यमिह मा भूत्। चतस्रुणा। चतसृणे। इदम्। आभ्याम्। एभिः। अन्तोदात्तादित्यधि- कारादन्वादेशे न भवति। अथो आभ्यां निपुणमधीतमिति। पदादयः पद्धूचोमासित्येवमादयो निशपर्यन्ता इह गृह्यन्ते। निपदाश्चतुरो जहि। या हृत्सु धावति। असन्प्रभृतिभ्यो विभक्तिरनुदात्तैव भवति। ग्रीवायां बद्धो अपि कक्ष्यासनि। मत्स्यं न दीनमुदनि क्षियन्तम्। अप्। अपः पश्य। अद्भिः। द्भ्यः। पुम्। पुंसः। पुम्भ्याम्। पुम्भ्यः। पुंसा। पुंसे। रै। रायः पश्य। राभ्याम्। राभिः। दिव्। दिवः पश्य। दिवा। दिवे॥ अष्टनो दीर्घात् ॥ १७२ ॥ अष्टनो दीर्घान्तादसर्वनामस्थानविभक्तिरुदात्ता भवति। अष्टाभिः। अष्टाभ्यः। अष्टासु। घृतादिपाठादष्टन्शब्दोऽन्तोदात्तस्तत्र झल्युपोत्तममित्य- स्यापवादो विभक्तेरुदात्तत्वं विधीयते। दीर्घादिति किम्। अष्टसु प्रक्रमेषु ब्राह्मणोऽग्नीनादधीत। इदमेव दीर्घग्रहणमष्टन आत्वविकल्पं ज्ञापयति कृता- त्त्वस्य च षट्संज्ञां ज्ञापयति। अन्यथा ह्यात्वपक्षे सावकाशो ऽष्टनः स्वरः पर- त्वादनात्वपक्षे षट्स्वरेण बाध्येतति किं दीर्घग्रहणेन ॥ शतुरनुमो नद्यजादी ॥ १७३ ॥ अन्तोदात्तादिति वर्तते। अनुमो यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिविभक्तिरसर्वनामस्थानमुदात्ता भवति। तुदती। नुदती। लुनती। पुनती। तुदता। नुदता। लुनता। पुनता। अनुमो इति किम्। तुदन्ती। नुदन्ती। अत्राप्युपदेशादिति लसार्वधातुकानुदात्तत्वे एकादेशस्वरेणैकादेश उदात्तेनोदात्त इत्युदात्तत्वं तस्य पूर्वत्रासिद्धत्वं नैव्यास्रति शबन्तमन्तोदात्तं भवति। नद्यजादौ इति किम्। तुदद्भ्याम्। तुदद्भ्यः। तुदद्भिः। अन्तो-