काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 534, कुल 828 में से
संदर्भ में पढ़ेंवश्यः । उदात्तन्निवृत्तिस्वरेणान्तोदात्तो भवति । प्रत्ययलक्षणमत्रापि नेष्यते । पथिप्रिय इत्यत्र पूर्वपदप्रकृतिस्वरेणान्तोदात्तः पथिशब्दः ॥ अन्तश्च तवै युगपत् ॥ २०० ॥ तवैप्रत्ययान्तस्यान्तश्चशब्दादादिश्च युगपदुदात्तौ भवतः । कर्तवै । हर्तवै । प्रत्ययाद्युदात्तत्वापवादः । युगपद्ग्रहणं पर्यायनिवृत्त्यर्थम् । एकवर्ज- मिति वचनाद्यौगपद्यं न स्यात् ॥ क्षयो निवासे ॥ २०१ ॥ क्षयशब्दो निवासे ऽभिधेये आद्युदात्तो भवति । क्षियन्ति निवस्- न्त्यस्मिन्निति क्षयः पुंसि संज्ञायां घः प्रायेणेति घप्रत्ययान्तस्य प्रत्ययस्वरः प्राप्तः । क्षये जागृहि प्रपश्यन् । निवासइति किम् । क्षयो वर्त्तते दस्यूनाम् । एरज्चि- त्ययमजन्तः ॥ जयः करणम् ॥ २०२ ॥ जयशब्दः करणवाची आद्युदात्तो भवति । जयन्ति तेनेति जयः । पुंसि संज्ञायां घः प्रायेणेति घस्तस्य प्रत्ययस्वरः प्राप्तः । जयोऽश्वः । करणमिति किम् । जयो वर्त्तते ब्राह्मणानाम् । अत्राप्येरजित्ययमजन्तः ॥ वृषादीनां च ॥ २०३ ॥ वृष इत्येवमादीनामादिरुदात्तो भवति ॥ वृषः । जनः । ज्वरः । गहः । हयः । गयः । एते सर्वे पचाद्यच्प्रत्ययान्ताः । गय इत्यत्र गायतेर्निपातनाद्धे- त्वम् । नयः । तयः । पयः । वेदः । अंशः । दवः । एते ऽपि तथैवाच्प्रत्य- यान्ताः । सूद दृगुपधादिति कप्रत्ययान्तः । गुहाभिदादिरङ्प्रत्ययान्तः ॥ शम- रखौ संज्ञायां समतौ भावकर्मणोः ॥ शमो भावे रणः कर्मणि घञन्तावेतौ निपातनाद् भावकर्मणोर्भवतः । मन्त्रः पचाद्यजन्तः । शान्तिरिति क्तिजन्तः । कामः । यामः । घञन्तावेतौ । आराधाराकारा भिदादयः । वहो गोचरादिषु घप्रत्ययान्तः । कल्पः । अ्रजन्तः । पादो घञन्तः । तत्र क्व चित्प्रत्ययस्वरः प्राप्तः क्व चित्कर्षात्वतो घञोन्त उदात्त इति । वृषादिराकृतिगणः । अविहित- माद्युदात्तत्वं वृषादिषु द्रष्टव्यम् ॥ संज्ञायामुपमानम् ॥ २०४ ॥ उपमानशब्दः संज्ञायामाद्युदात्तो भवति । चञ्चा । वद्रधिका । खर- कुटी । दासी । उपमानशब्दा एते ऽउपमेयस्य संज्ञाः । तत्र इवे प्रतिकृताविति यः कन् तस्य लुम्मनुष्येइति लुप् । यद्येवं किमर्थमिदमुच्यते प्रत्ययलक्षणेन सिद्धमाद्युदात्तत्वम् । एतदेव ज्ञापयति क्व चिदिह स्वरविधौ प्रत्ययलक्षणं न