काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 54, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ १ । ३ ॥ ५० रणमुपश्लेषः । तद्यथा । गङ्गा यमुनामुपतिष्ठते । मित्रकरणं तु विनाप्युपश्ले- षेण मैत्रीसंबन्धः । पथि । अयं पन्थाः स्रुघ्नमुपतिष्ठते । वा लिप्सायामिति वक्त- व्यम् ॥ * ॥ भिक्षुको ब्राह्मणकुलमुपतिष्ठते । उपतिष्ठतीति वा ॥ अकर्मकाच्च ॥ २६ ॥ उपादिति वर्तते । उपपूर्वात् तिष्ठतेरकर्मकादकर्मकक्रियावचनादात्मने- पदं भवति । यावद्भुक्तमुपतिष्ठते । यावदोदनमुपतिष्ठते । भुक्तमिति भावे क्तप्रत्ययः। भोजनेभोजने संविधीयतइत्यर्थः । अकर्मकादिति किम् । राजानमुपतिष्ठति ॥ उद्विभ्यां तपः ॥ २७ ॥ अकर्मकादिति वर्तते । उद्वि इत्येवंपूर्वात् तपतेरकर्मकक्रियावचना- दात्मनेपदं भवति । उत्तपते । वितपते । दीप्यत इत्यर्थः । अकर्मकादित्येव । उत्तपति सुवर्णं सुवर्णकारः । वितपति पृष्ठं सविता । स्वाङ्गकर्मकाच्चेति वक्त- व्यम् ॥ * ॥ उत्तपते पाणिम् । उत्तपते पृष्ठम् । वितपते पाणिम् । वितपते पृष्ठम् । स्वाङ्गं चेह न पारिभाषिकं गृह्यते ऽद्रवं मूर्त्तिमत् स्वाङ्गमिति । किं तर्हि, स्वमङ्गं स्वाङ्गम् । तेनेह न भवति । देवदत्तो यज्ञदत्तस्य पृष्ठमुत्तपतीति । उद्विभ्यामिति किम् । निष्टपति ॥ आङो यमहनः ॥ २८ ॥ अकर्मकादिति वर्तते । यम उपरमे हन, हिंसागत्योरिति परस्मैपदिनौ । ताभ्यामकर्मकक्रियावचनाभ्यामाङ्पूर्वाभ्यामात्मनेपदं भवति । आयच्छते । आयच्छेते । आयच्छन्ते । हनः खल्वपि । आहते । आघ्नाते । आघ्नते । अकर्म- कादित्येव । आयच्छति कूपाद्रज्जुम् । आहन्ति वृषलं पादेन । स्वाङ्गकर्मका- च्चेति वक्तव्यम् । आयच्छते पाणिम् । आहते शिरः । स्वाङ्गं चेह न पारि- भाषिकं गृह्यते किं तर्हि, स्वमङ्गं स्वाङ्गं, तेनेह न भवति । आहन्ति शिरः पर- कीयमिति ॥ समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः ॥ २९ ॥ अकर्मकादिति वर्तते । शेषात् कर्त्तरि परस्मैपदे प्राप्ते संपूर्वेभ्यो गमि ऋच्छि प्रच्छ स्वरति अर्ति श्रु विदि इत्येतेभ्यो ऽकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति । संगच्छते । समृच्छते । संपृच्छते । संस्वरते । संकल्पा अस्य समरन्त । ऋतेर्लुङि ऋेः सार्तिशास्त्यर्तिभ्यश्चेत्यङादेशः । तत्र परस्मैपदेष्वित्येतदाश्रीयते बहुलं छन्दस्यमाङ्योगेऽपीत्याट् प्रतिषिध्यते । ऋदृशोऽङि गुण इति गुणः । समरन्त । संशृणुते । संवित्ते । ऋच्छेरनादेशस्य ग्रहणम् । समृच्छिष्यते । आर्त्या- देशस्य त्वर्तैरित्येव सिद्धमात्मनेपदम् । अर्तिरभयत्र पठ्यते, ऋ गतिप्रापणयोः