भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 546, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 546

॥ काशिका ॥ ६ ॥ २ ॥ ५४५ पूगेष्वन्यतरस्याम् ॥ २८ ॥ पूगा गणास्तद्वाचिन्युत्तरपदे कर्मधारये समासे कुमारस्यान्यतरस्यामादि- रुदात्तो भवति । कुमारचातकाः । २ । कुमारलोहध्वजाः । २ । कुमारबला- हकाः । २ । कुमारजीमूताः । २ । चातकादयः पूगशब्दास्तेभ्यः पूगाञ्ञ्यो ब्राम्ह- णीपूर्वादिति ञ्यः प्रत्ययस्तस्य तद्राजस्य बहुष्विति लुक् । अत्र यदा ऽऽद्युदा- त्तत्वं न भवति तदा कुमारश्चेति पूर्वपदप्रकृतिस्वरत्वमेके कुर्वन्ति । ये तु तत्र प्रतिपदोक्तस्य ग्रहणमिच्छन्ति तेषां समासान्तोदात्तत्वमेव भवति ॥ इगन्तकालकपालभगालशरावेषु द्विगौ ॥ २९ ॥ इगन्तउत्तरपदे कालवाचिनि कपाल भगाल शराव इत्येतेषु च द्विगौ समासे पूर्वपदं प्रकृतिस्वरं भवति । इगन्त । पञ्चारत्निः । दशारत्निः । पञ्चा- रत्नयः प्रमाणमस्य दशारत्नयः प्रमाणमस्येति तद्धितार्थे द्विगुः प्रमाणे लो द्विगो- र्नित्यमिति मात्र चो लोपः । इगन्त । काल । पञ्चमास्यः । दशमास्यः । पञ्च मासान्भृतो भूतो भावी वेति तद्धितार्थे द्विगोर्यण् । पञ्चवर्षः । दशवर्षः । वर्षाल्लुक् चेति ठञो लुक् । काल । कपाल । पञ्चकपालः । दशकपालः । कपाल । भगाल । पञ्चभगालः । दशभगालः । भगाल । शराव । पञ्चश- रावः । दशशरावः । संस्कृतं भक्षा इति तद्धितार्थेऽते समासा द्विगोर्लुगनपत्य- रिति कृताप्रत्ययलोपा द्रष्टव्याः । इगन्तादिष्विति किम् । पञ्चभिरश्वैः क्रीतः पञ्चाश्वः दशाश्वः । द्विगाविति किम् । परमारत्निः । परमशरावम् । पञ्चा- रत्नयो दशारत्नय इति च यण्गुणयोर्बहिरङ्गलक्षणयोरसिद्धत्वात् स्थानिवद्भावाद्वा द्विगुस्वर इगन्तलक्षणः प्रवर्तते ॥ बहुन्यतरस्याम् ॥ ३० ॥ बहुशब्दः पूर्वपदमिनन्तादिषूत्तरपदेषु द्विगौ समासे ऽन्यतरस्यां प्रकृति- स्वरं भवति । पूर्वेण नित्ये प्राप्ते विकल्पः । बहुरत्निः । २ । बहुमास्यः । २ । बहुकपालः । २ । बहुभगालः । २ । बहुशरावः । २ । बहुशब्दोन्तोदात्तस्तस्य प्रकृतिस्वरे कृते यत्र यणादेशस्तत्रोदात्तस्वरितयोर्यणः स्वरितो ऽनुदात्तस्येत्येष स्वरो भवति ॥ दिष्टिवितस्त्योश्च ॥ ३१ ॥ दिष्टि वितस्ति इत्येतयोरुत्तरपदयोर्द्विगौ समासे पूर्वपदमन्यतरस्यां प्रकृतिस्वरं भवति । पञ्चदिष्टिः । २ । पञ्चवितस्तिः । २ । दिष्टिवितस्त्यो प्रमाणे सैनाच्च मात्रचो लुक् ॥ सप्तमी सिद्धशुष्क पक्वबन्धेष्वकालात् ॥ ३२ ॥ ३५