काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 547, कुल 828 में से
संदर्भ में पढ़ें५४६ ॥ काशिका ॥ ६ ॥ २ ॥ सप्तम्यन्तं पूर्वपदं सिद्ध शुष्क पक्व बन्ध इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति सा चेत्सप्तमी कालान्न भवति । सांकाश्यसिद्धः । काम्पिल्यसिद्धः । सांकाश्यकाम्पिल्यशब्दौ ण्यप्रत्ययान्तावन्तोदात्तौ । फिषि तु सांकाश्यकाम्पि- ल्यनासिक्यदार्वाघाटानामन्तः पूर्वं वेति पठ्यते । तत्र पक्षे मध्योदात्तावपि भवतः । शुष्क । ऊरुशुष्कः । निधनशुष्कः । ऊरुशब्दो बहुलवचनादवतेः ककप्रत्ययान्तोन्तोदात्तः । निधनशब्दो निधाञः क्वुप्रत्यये मध्योदात्तः । पक्व । कुम्भीपक्वः । बिलासीपक्वः* । भ्राष्ट्रपक्वः । कुम्भीबिलासीशब्दौ ङीबन्ता- वन्तोदात्तौ । भ्राष्ट्रशब्दष्ट्रन्प्रत्ययान्त आद्युदात्तः । बन्ध । चक्रबन्धः । चार- कबन्धः । चक्रशब्दोन्तोदात्तः । चारकशब्दो ण्वुलन्त आद्युदात्तः । अकाला- दिति किम् । पूर्वाद्ध्वसिद्धः । अपराह्णसिद्धः सप्तमीस्वरः कृत्स्वरेण बाधितः पुनरयं विधीयते† ॥ परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु ॥ ३३ ॥ परि प्रति उप आप इत्येते पूर्वपदभूता वर्ज्यमानवाचिनि अहरवयववा- चिनि रात्र्यवयववाचिनि चोत्तरपदे प्रकृतिस्वरा भवन्ति । परिन्त्रिगर्तं वृष्टो देवः । परिसौवीरम् । परिसावेसेनि । प्रति । प्रतिपूर्वाह्णम् । प्रत्यपराह्णम् । प्रतिपूर्वरात्रम् । प्रत्यपररात्रम् । उप । उपपूर्वाह्णम् । उपापराह्वम् । उपपूर्वरा- त्रम् । उपापररात्रम् । अप । अपत्रिगत्तं वृष्टो देवः । अपसौवीरम् । अपसा- वेसेनि । निपाता आद्युदात्ता उपसर्गाश्चाभिवर्जमिति चाद्युदात्तानि पूर्वप- दानि । तत्पुरुषे बहुव्रीहौ च सिद्धत्वादव्ययीभावार्थोयमारम्भः । तत्रापपरी वर्जने वर्त्तेते इति तयोरेव वर्ज्यमानमुत्तरपदं नेतरयोः । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्तीति न पृथगुदाह्रियते । वर्ज्यमानाहोरात्रावयवे- ष्विति किम् । प्रत्यग्नि शलभाः पतन्ति । परिखनमित्यत्र वनं समासइत्येत्वद्भवति ॥ राजन्यबहुवचनद्वन्द्वेन्धकवृष्णिषु ॥ ३४ ॥ राजन्यवाचिनां बहुवचनान्तानां यो द्वन्द्वो ऽन्धकवृष्णिषु वर्त्तते तत्र पूर्वपदं प्रकृतिस्वरं भवति । श्वाफल्कचैत्रकरोधकाः । शिनिवासुदेवाः । श्वाफल्कशब्दश्चैत्रकशब्दश्च चष्यन्धकवृष्णिकुरुभ्यश्चेति ण्यणन्तावन्तोदात्तौ । शिनिशब्द आद्युदात्तः स तदपत्येष्वभेदेन वर्त्तते । राजन्यइति किम् । द्वैप्यहै- मायनाः ‡ । द्वीपे भवा इति द्वीपादनुसमुद्रं यञ् । हेमेरपत्यं युवा हेमा- यनाः । अन्धकवृष्णय एते न तु राजन्याः । राजन्यग्रहणमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । एते च नाभिषिक्तवंश्याः । बहुवचनग्रहणं किम् ।
- कलशीपक्व इति पा० २ । अयमेव पदमञ्जरीसंमतः । † प्रतिप्रसूयते । पा० २ । ‡ द्वैप्यमैमायनाः पा० २ ।