काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 550, कुल 828 में से
संदर्भ में पढ़ेंतेषूत्तरपदेषु प्रकृतिस्वरं भवति । महाव्रीहिः । महापराह्णः । महासृष्टिः । महेष्वासः । महाजाबालः । महाभारः । महाभारतः । महाहैलिहिलः । महा- रौरवः । महाप्रवृद्धः । महच्छब्दोऽन्तोदात्तः । तस्य प्रतिपदोक्तो यः समासः सन्महत्परमोत्तमोत्कृष्टा इति तत्रैव स्वरस्तेनेषां षष्ठीसमासे ऽन्तोदात्त एव भवति । महतो व्रीहिः, महद्व्रीहिरिति । कर्मधारये निष्ठेत्ययमपि श्रेण्यादि- समासे विधिरिति प्रवृद्धशब्द इह पठ्यते ॥ क्षुल्लकश्च वैश्वदेवे ॥ ३९ ॥ क्षुल्लकइत्येतत्पूर्वपदं महांश्च वैश्वदेवउत्तरपदे प्रकृतिस्वरं भवति । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञाता- दिषु प्रागिवात्कन्तोदात्तः क्षुल्लकशब्दः ॥ उष्ट्रः सादिवाम्योः ॥ ४० ॥ उष्ट्रशब्दः पूर्वपदं सादिवाम्योरुत्तरपदयोः प्रकृतिस्वरं भवति । उष्ट्र- सादि । उष्ट्रवामि । उष्ट्रशब्द उषेः ष्ट्रन्प्रत्ययान्त आद्युदात्तः कर्मधारयोयं षष्ठीसमासो वा ॥ गौः सादसादिसारथिषु ॥ ४१ ॥ गोशब्दः पूर्वपदं साद सादि सारथि इत्येतेषूत्तरपदेषु प्रकृतिस्वरं भवति । गोः सादः, गोसादः । गां सादयतीति वा गोसादः । गोः सादिः, गोसादिः । गोसारथिः ॥ कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपा पारेवडवा तैतिलकद्रूः पण्यकम्बलो दासीभाराणां च ॥ ४२ ॥ कुरुगार्हपत रिक्तगुह असूतजरती अश्लीलदृढरूपा पारेवडवा तैतिलकद्रू पण्यकम्बल इत्येते समासास्तेषां दासीभारादीनां च पूर्वपदं प्रकृतिस्वरं भवति । कुरूणां गार्हपतं, कुरुगार्हपतम् । कृञोवृश्चेति कुरुशब्दः कुप्रत्ययान्तो- न्तोदात्तः ॥ कुरुवृज्योगार्हपतरिति वक्तव्यम् ॥ * ॥ वृजीनां गार्हपतं, वृजिगा- र्हपतम् । वृजिशब्द आद्युदात्तः । रिक्तो गुहः, रिक्तगुहः । रिक्ते विभाषेति पूर्वपदमाद्युदात्तमन्तोदात्तं वा । असूता जरती, असूतजरती । अश्लीला दृढ- रूपा, अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादेराकृतिगणत्वाल्लच् । कपिलादित्वाच्च लत्वम् । अश्ली- लदृढरूपेति हि संस्थानमात्रेण शोभना निःश्रीका लावण्यरहितेत्युच्यते । पारेवडवेव, पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः, तैतिलकद्रूः । तितिलिनोपत्यं छात्रो