काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 551, कुल 828 में से
संदर्भ में पढ़ें५५० ॥ काशिका ॥ ६ ॥ २ ॥ वा सैतिल इत्यणन्तः । पयस्यकम्बलः । पयस्यशब्दो यदन्तत्वादाद्युदात्तः । पयस्यकम्बलः ॥ संज्ञायामिति वक्तव्यम् ॥ * ॥ अन्यत्र पषितव्ये कम्बले समा- सान्तोदात्तत्वमेव प्रतिपदोक्ते हि कृत्यानां समासे द्वितीया कृत्या इत्येष विहितः स्वरितः । दास्या भारो, दासीभारः । देवहूतिः । देवजूतिः । देव- सूतिः । देवनीतिः । अन्तोदात्तं पूर्वपदम् । वसुनीतिः । वसुशब्द चाद्यु- दात्तः । शृस्वृस्निहित्रप्यसिवसीत्यत्र हि धान्ये निदिति वर्तते । ओषधिः । ओषो धीयते ऽस्यामिति कर्मण्यधिकरणे चेति किप्रत्ययः । ओषशब्दो घञ- न्तत्वादाद्युदात्तः । चन्द्रमाः । चन्द्रे मोसिरित्यसिप्रत्ययान्तोयम् । चन्द्रशब्द- स्स्फिक्प्रत्ययान्तत्वादन्तोदात्तः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न च विहितं स सर्वो दासीभारादिषु द्रष्टव्यः ॥ चतुर्थी तदर्थे ॥ ४३ ॥ चतुर्थ्यन्तं पूर्वपदं तदर्थेऽउत्तरपदे तदभिधेयार्थे यत्सद्भाविन्युत्तरपदे प्रकृति- स्वरं भवति । तदिति चतुर्थ्यन्तस्यार्थः परामृश्यते । यूपदारु । कुण्डलहिरण्यम् । यूपशब्द आद्युदात्तः । कुसुयुभ्यश्चेत्यत्र निदिति वर्तते । कुण्डलशब्दोऽपि वृषा- दिभ्यश्चिदिति कलप्रत्ययान्तोऽन्तोदात्तः । रथदारु । वल्लीहिरण्यम् । रथशब्द- आद्युदात्तः । इनिकुषीत्यादिना क्थन्प्रत्ययः । वल्लीशब्दो डीषः स्वरेणान्तोदात्तः । तदर्थेति किम् । कुबेरवलिः । प्रकृतिविकारभावे स्वरोऽयमिष्यते ॥ अर्थे ॥ ४४ ॥ चतुर्थीति वर्तते । अर्थशब्दउत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति । मात्रे इदं, मात्रर्थम् । देवतार्थम् । अतिथ्यर्थम् । मातृपितृशब्दाव- न्तोदात्तावुणादिषु निपातितौ । देवताशब्दो लित्स्वरेण मध्योदात्तः । अति- थिरित्यतेरिथिञ्चितीथिन्प्रत्ययान्तः । तदर्थविशेषा एव दारुहिरण्यादयो भवन्ति न त्वर्थशब्दवाच्यं सामान्यमित्यतदर्थार्थोऽयमारम्भः । के चित्पुनराहुः । ज्ञाप- कार्थमिदमेतदनेन ज्ञाप्यते पूर्वो विधिः प्रकृतिविकृत्योः समासे भवति । अश्व- घासः । श्वश्रूसुरमित्यत्र सत्यपि तदर्थे न भवति ॥ क्ते च ॥ ४५ ॥ क्तन्ते चोत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति । गोहितम् । अश्वहितम् । मनुष्यहितम् । गोरक्षितम् । अश्वरक्षितम् । वनं तापसरक्षितम् । अश्वशब्द आद्युदात्तो मनुष्यशब्दोऽन्तस्वरितः । परिशिष्टपूर्वपदमन्तोदात्तम् । गोभ्यो रक्षितमिति संप्रदाने चतुर्थी ॥ कर्मधारये ऽनिष्ठा ॥ ४६ ॥