भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

५५० ॥ काशिका ॥ ६ ॥ २ ॥ वा सैतिल इत्यणन्तः । पयस्यकम्बलः । पयस्यशब्दो यदन्तत्वादाद्युदात्तः । पयस्यकम्बलः ॥ संज्ञायामिति वक्तव्यम् ॥ * ॥ अन्यत्र पषितव्ये कम्बले समा- सान्तोदात्तत्वमेव प्रतिपदोक्ते हि कृत्यानां समासे द्वितीया कृत्या इत्येष विहितः स्वरितः । दास्या भारो, दासीभारः । देवहूतिः । देवजूतिः । देव- सूतिः । देवनीतिः । अन्तोदात्तं पूर्वपदम् । वसुनीतिः । वसुशब्द चाद्यु- दात्तः । शृस्वृस्निहित्रप्यसिवसीत्यत्र हि धान्ये निदिति वर्तते । ओषधिः । ओषो धीयते ऽस्यामिति कर्मण्यधिकरणे चेति किप्रत्ययः । ओषशब्दो घञ- न्तत्वादाद्युदात्तः । चन्द्रमाः । चन्द्रे मोसिरित्यसिप्रत्ययान्तोयम् । चन्द्रशब्द- स्स्फिक्प्रत्ययान्तत्वादन्तोदात्तः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न च विहितं स सर्वो दासीभारादिषु द्रष्टव्यः ॥ चतुर्थी तदर्थे ॥ ४३ ॥ चतुर्थ्यन्तं पूर्वपदं तदर्थेऽउत्तरपदे तदभिधेयार्थे यत्सद्भाविन्युत्तरपदे प्रकृति- स्वरं भवति । तदिति चतुर्थ्यन्तस्यार्थः परामृश्यते । यूपदारु । कुण्डलहिरण्यम् । यूपशब्द आद्युदात्तः । कुसुयुभ्यश्चेत्यत्र निदिति वर्तते । कुण्डलशब्दोऽपि वृषा- दिभ्यश्चिदिति कलप्रत्ययान्तोऽन्तोदात्तः । रथदारु । वल्लीहिरण्यम् । रथशब्द- आद्युदात्तः । इनिकुषीत्यादिना क्थन्प्रत्ययः । वल्लीशब्दो डीषः स्वरेणान्तोदात्तः । तदर्थेति किम् । कुबेरवलिः । प्रकृतिविकारभावे स्वरोऽयमिष्यते ॥ अर्थे ॥ ४४ ॥ चतुर्थीति वर्तते । अर्थशब्दउत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति । मात्रे इदं, मात्रर्थम् । देवतार्थम् । अतिथ्यर्थम् । मातृपितृशब्दाव- न्तोदात्तावुणादिषु निपातितौ । देवताशब्दो लित्स्वरेण मध्योदात्तः । अति- थिरित्यतेरिथिञ्चितीथिन्प्रत्ययान्तः । तदर्थविशेषा एव दारुहिरण्यादयो भवन्ति न त्वर्थशब्दवाच्यं सामान्यमित्यतदर्थार्थोऽयमारम्भः । के चित्पुनराहुः । ज्ञाप- कार्थमिदमेतदनेन ज्ञाप्यते पूर्वो विधिः प्रकृतिविकृत्योः समासे भवति । अश्व- घासः । श्वश्रूसुरमित्यत्र सत्यपि तदर्थे न भवति ॥ क्ते च ॥ ४५ ॥ क्तन्ते चोत्तरपदे चतुर्थ्यन्तं पूर्वपदं प्रकृतिस्वरं भवति । गोहितम् । अश्वहितम् । मनुष्यहितम् । गोरक्षितम् । अश्वरक्षितम् । वनं तापसरक्षितम् । अश्वशब्द आद्युदात्तो मनुष्यशब्दोऽन्तस्वरितः । परिशिष्टपूर्वपदमन्तोदात्तम् । गोभ्यो रक्षितमिति संप्रदाने चतुर्थी ॥ कर्मधारये ऽनिष्ठा ॥ ४६ ॥

॥ काशिका ॥ ६ ॥ २ ॥ ५५१ कर्मधारये समासे क्तान्तउत्तरपदे ऽनिष्ठान्तं पूर्वपदं प्रकृतिस्वरं भवति । श्रेणिकृताः । एककृताः । पूगकृताः । निधनकृताः श्रेणिशब्द चाद्युदात्तः । एकपूगशब्दावन्तोदात्तौ । निधनशब्दोयं मध्योदात्तः । कर्मधारयइति किम् । श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठेति किम् । कृताकृतम् ॥ अहीने द्वितीया ॥ ४७ ॥ अहीनवाचिनि समासे क्तान्तउत्तरपदे द्वितीयान्तं पूर्वपदं प्रकृतिस्वरं भवति । कष्टश्रितः । त्रिशकलपतितः । ग्रामगतः । कष्टशब्दो ऽन्तोदात्तः । त्रीणि शकलान्यस्येति, त्रिशकलः । बहुव्रीहिस्वरेणाद्युदात्तः । ग्रामशब्दो नित्स्वरेणाद्युदात्तः । अहीनइति किम् । कान्तारातीतः । योजनातीतः * ॥ द्वितीयानुपसर्गेइति वक्तव्यम् ॥ * ॥ इह मा भूत् । सुखप्राप्तः । दुःखप्राप्तः । सुखापन्नो दुःखापन्नः । क्तान्तस्यायेत्यस्यापवादोयम् ॥ तृतीया कर्मणि ॥ ४८ ॥ कर्मवाचिनि क्तान्तउत्तरपदे तृतीयान्तं पूर्वपदं प्रकृतिस्वरं भवति । अहिहतः । वज्रहतः † । महाराजहतः । नखनिर्भिन्नः । दात्रलूना । आहि श्रिहन्भ्यां ह्रस्वश्चेति अहिरन्तोदात्तो व्युत्पादितः । के चित्त्वाद्युदात्तमि- च्छन्ति । वज्रो रकूप्रत्ययान्तः । महाराजष्टच्प्रत्ययान्तः । नास्य खमस्तीति बहुव्रीहौ नकुलनखेति नखशब्दो निपातितः । तेन नङ्सुभ्यामित्यन्तोदात्तः । दात्रशब्दो दाम्नीशसेति ष्ट्रन्प्रत्ययान्तः । कर्मणीति किम् । रथेन यातो रथ- यातः । गत्यर्थत्वात्कर्तरि क्तः ॥ गतिरनन्तरः ॥ ४९ ॥ क्ते कर्मणीति वर्तते । कर्मवाचिनि क्तान्तउत्तरपदे गतिरनन्तरः पूर्वपदं प्रकृतिस्वरं भवति । प्रकृतः । प्रहृतः । अनन्तर इति किम् । अभ्युद्धृतः । समु- द्धृतः । समुदाहृतः । व्यवहितस्य गतेरयं स्वरो न भवति । अनन्तरे पुनरिष्यते । कारकपूर्वस्य तु सति शिष्टत्वात् थाथादिस्वर एव भवति दूरादागत इति । अनन्तरग्रहणसामर्थ्यादेव कृद्ग्रहणे गतिकारकपूर्वस्यापीत्येतन्नाश्रीयते । कर्मणी- त्येव । प्रकृतः कटं देवदत्तः । थाथादिस्वरापवादो योगः ॥ तादौ च निति कृत्यतौ ॥ ५० ॥ तकारादौ च तुशब्दवर्जिते निति कृति परतो गतिरनन्तरः प्रकृतिस्वरो भवति । प्रकर्त्ता । प्रकर्त्तुम् । प्रकृतिः । प्रकर्त्तेति तृवन्तः । कृत्स्वरबाधनार्थं वच- नम् । तादाविति किम् । प्रजल्पकः । नितीति किम् । प्रकर्ता । तृजन्तः ।

  • हीनं त्यक्तं विभक्तमित्यनर्थान्तरमित्यधिकं पुस्तकान्तरे । † बद्धहतः । पाठ २ ।

ावद्" - "आहाव" / "आह्राव"! "आहावो वै देवानां..." Wait, Panini sutra: Is there a sutra: "आह्रावे..."? Wait! "आह्राव" from "आ + ह्वे" with घञ्: "ह्वः संप्रसारणं च" -> "आहाव"? Wait! Panini 8.2.something: "आह्वान"? Wait, what about 6.2.50? Could Sutra 6.2.50 be: "आह्रावे तादर्थ्ये"? Or "आहावे तादर्थ्ये"? Wait! Look at the vritti in line 1: "ह्रस्वत्वमुपदेशे तादर्थ्यम् । इहापि यथा स्यात्, प्रलपिता प्रलपितुमिति ।" Wait, why does it say "तादर्थ्यम्"? If the sutra has "तादर्थ्ये", then the vritti explains "तादर्थ्यम्"! And then: "आहाविति किम् । आगन्तुः ॥" Wait! If the sutra is "आहावे...", then the pratyudāharaṇa for "आहावे" is: "आहाविति किम् । आगन्तुः ॥" (Wait, in "आगन्तुः" there is no "आहाव", it's just general movement/coming!). Wait, but why

॥ काशिका ॥ ६ ॥ २ ॥ ५५३ कतरकतमौ कर्मधारये ॥ ५७ ॥ कतरशब्दः कतमशब्दश्च पूर्वपदं कर्मधारये समासे ऽन्यतरस्यां प्रकृ- तिस्वरं भवति । कतरकठः । २ । कतमकठः * । २ । कर्मधारयग्रहणमुत्तरार्थ- मिह तु प्रतिपदोक्तत्वादेव सिद्धम् ॥ आर्यो ब्राह्मणकुमारयोः ॥ ५८ ॥ आर्यशब्दः पूर्वपदं ब्राह्मणकुमारशब्दयोः कर्मधारये समासे ऽन्यतरस्यां प्रकृतिस्वरं भवति । आर्यब्राह्मणः । २ । आर्यकुमारः । २ । आर्यशब्दो ण्यदन्तो- ऽन्तस्वरितः । आर्य इति किम् । परमब्राह्मणः । परमकुमारः । ब्राह्मणकुमारयो- रिति किम् । आर्यक्षत्रियः । कर्मधारयइत्येव । आर्यस्य ब्राह्मण, चार्यब्राह्मणः ॥ राजा च ॥ ५९ ॥ राजा च पूर्वपदं ब्राह्मणकुमारयोरुत्तरपद्योः कर्मधारये समासे ऽन्य- तरस्यां प्रकृतिस्वरं भवति । राजब्राह्मणः । २ । राजकुमारः । २ । कर्मधारय- इत्येव । राज्ञो ब्राह्मणो, राजब्राह्मणः । राजकुमारः । पृथग्योगकरणमुत्तरार्थम् ॥ षष्ठी प्रत्येनासि ॥ ६० ॥ राजेति वर्तते, ऽन्यतरस्यामिति च । षष्ठ्यन्तो राजशब्दः पूर्वपदं प्रत्ये- नस्युत्तरे ऽन्यतरस्यां प्रकृतिस्वरं भवति । राज्ञः प्रत्येनाः, राजप्रत्ये

५५४ ॥ काशिका ॥ ६ ॥ २ ॥ राजगुणाध्यारोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यताया तस्य। राजेति किम्। परमनापितः। प्रशंसायामिति किम्। राजनापितः। शिल्पि- नित्येव। राजहस्ती॥ आदिरुदात्तः ॥ ६४ ॥ आदिरुदात्त इत्येतदधिकृतमित उत्तरं यद्वक्ष्यामस्तत्र पूर्वपदस्यादिरु- दात्तो भवतीत्येवं तद्वेदितव्यम्। वक्ष्यति सप्तमीहारिणौ धर्म्येऽहरणे इति। स्तूपेशाखः। मुकुटेकार्षापणम्। याजिकाश्वः। वैयाकरणहस्ती। दृषदिमाषकः। आदिरिति प्रागन्ताधिकारात्। उदात्त इति प्रकृत्या भगलमिति यावत् ॥ सप्तमीहारिणौ धर्म्ये ऽहरणे ॥ ६५ ॥ सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्यवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपदे आद्युदात्तं भवति। हारीति देयं यः स्वीकरोति सोऽभिधीयते। धर्म्यमित्या- चारनियतं देयमुच्यते, धर्मो ह्यनुवृत्त आचारस्तस्मादनपेतं तेन वा प्राप्यमिति। स्तूपेशाखः। मुकुटेकार्षापणम्। हलेद्विपदिका। हलेत्रिपदिका। दृषदिमा- षकः। संज्ञायामिति सप्तमीसमासः, कारनाम्नि चेति विभक्तेर्लुक्। हारिणि। याजिकाश्वः। वैयाकरणहस्ती। मातुलाश्वः। पितृव्यगवः। क्व चिदयमाचारो व्यवस्थितस्तूपादिषु शाखादि दातव्यं याजिकादीनामश्वादीति। धर्म्येति किम्। स्तम्बेरमः। कर्मकरवर्त्तितकः*। अहरणेति किम्। वाडवहरणम्। वडबाया अयं वाडवः। तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते हर- णमिति तदुच्यते। परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेनेत्येतदह- रणत्यनेन ज्ञाप्यते, तेन वाडवहार्यमिति हारिस्वरः सिद्धो भवति ॥ युक्ते च ॥ ६६ ॥ युक्तवाचिनि च समासे पूर्वपदमाद्युदात्तं भवति। गोवल्लवः। चाश्व- वल्लवः। गोमहिन्दः। अश्वमहिन्दः। गोसंख्यः। चाश्वसंख्यः। युक्त इति समाहितः कर्त्तव्ये तत्परो यः स उच्यते॥ विभाषा ऽध्यक्षे ॥ ६७ ॥ अध्यक्षशब्दउत्तरपदे विभाषा पूर्वपदमाद्युदात्तं भवति। गवाध्यक्षः। २। अश्वाध्यक्षः। २॥ पापं च शिल्पिनि ॥ ६८ ॥ पापशब्दः शिल्पियाचिन्युत्तरपदे विभाषा ऽऽद्युदात्तो भवति पापना-

  • वर्त्तितको नाम मूले स्थूलो ऽग्रे सूक्ष्म ओदनपिण्डः स कर्मकराय दीयते ऽन्यथा कर्म न कुर्यादिति न त्वयं धर्म इति पदमञ्जरी।

पितः । २ । पापकुलालः । २ । पापाच्छङ्गे कुत्सितैरिति प्रतिपदोक्तः पापश- ब्दस्य समानाधिकरणसमास इति षष्ठीसमासे न भवति । पापस्य नापितः, पापनापित इति ॥ गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ॥ ६९ ॥ गोत्रवाचिन्यन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मणयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं भवति । जङ्घावात्स्यः । यो जङ्घादानं ददान्यह- मिति वात्स्यः संपद्यते स जङ्घावात्स्य इति क्षिप्यते । भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । वशाब्राह्मणकृतयः । ब्राह्मणकृतशब्दः शुना- दिषु पठ्यते । गोत्र । अन्तेवासि । कुमारीदात्ताः । काम्बलचारायणीयाः । घृतरौढीयाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दात्तादिभिः प्रोक्तानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते

५५६ काशिका ॥ ६ ॥ २ ॥ अके जीविकार्थे ॥ ७३ ॥ अकप्रत्ययान्तउत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। दन्तलेखकः। नखलेखकः। अवस्करशोधकः। रमणीयकारकः। दन्तले- खनादिभिर्येषां जीविका त एवमुच्यन्ते। नित्यं क्रीडाजीविकयोरिति समासः। अक- इति किम्। रमणीयकर्ता। जीविकार्थेरति किम्। इशुभक्तिका मे धारयसि ॥ प्राचां क्रीडायाम् ॥ ७४ ॥ प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासे ऽकप्रत्ययान्तउत्तरपदे पूर्व- पदमाद्युदात्तं भवति। उद्दालकपुष्पभञ्जिका। वीरखपुष्पप्रचायिका। शाल- भञ्जिका। तालभञ्जिका। संज्ञायामिति ण्वुल्, नित्यं क्रीडाजीविकयोरिति षष्ठीसमासः। प्राचामिति किम्। जीवपुत्रप्रचायिका। इयमुदीचां क्रीडा। क्रीडायामिति किम्। तव पुष्पप्रचायिका। पर्याये ण्वुच्प्रत्ययो भवति ॥ ञ्यौ नियुक्ते ॥ ७५ ॥ ञ्यन्तउत्तरपदे नियुक्तवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। छत्र- धारः। तूणीधारः। कमण्डलुधारः। भृङ्गारधारः। नियुक्तो ऽधिकृतः स च कस्मिंश्चित्कर्त्तव्ये तत्परो न भवतीति नियुक्तत्यनेन सिद्ध्यति *। नियुक्तइति किम्। काण्डलावः। शरलावः॥ शिल्पिनि चाकृञः ॥ ७६ ॥ शिल्पियाचिनि समासे ऽणन्तउत्तरपदे पूर्वपदमाद्युदात्तं भवति स चेदण् कृञो न भवति। तन्तुवायः। सूत्रवायः। बालवायः। शिल्पिनीति किम्। काण्डलावः। अकृञ इति किम्। कुम्भकारः। अयस्कारः ॥ संज्ञायां च ॥ ७७ ॥ संज्ञायां विषये ऽणन्तउत्तरपदे ऽकृञः पूर्वपदमाद्युदात्तं भवति। तन्तुवायो नाम कीटः। वालवायो नाम पर्वतः। अकृञ इत्येव। रथकारो नाम ब्राह्मणः ॥ गोतन्तियवं पाले ॥ ७८ ॥ गो तन्ति यव इत्येतानि पूर्वपदानि पालशब्दउत्तरपदे आद्युदात्तानि भवन्ति। गोपालः। तन्तिपालः। यवपालः। अनियुक्तार्थ आरम्भः। गोतन्ति- यवमिति किम्। वत्सपालः। पालइति किम्। गोरथः ॥ खिनि ॥ ७९ ॥ खिन्नन्तउत्तरपदे पूर्वपदमाद्युदात्तं भवति। फलहारी। पर्णहारी ॥

  • नियुक्त इत्यनेन सिद्ध्यतीत्यस्य स्थाने युक्त इत्यनेन न सिद्ध्यतीति पा० २।

Here is the line-by-line transcription of the text from the image:

॥ काशिका ॥ ६ । २ ॥ ५५७ उपमानं शब्दार्थप्रकृतावेव ॥ ८० ॥ उपमानवाचि पूर्वपदं शब्दार्थप्रकृतावेव णिनन्तउत्तरपदमाद्युदात्तं भवति । पुष्पहारी । उपमानं नियम्यते । उष्ट्रक्रोशी । ध्वाह्ररावी । खरनादी । उपमानग्रहणमस्य पूर्वस्य च योगस्य विषयविभागार्थम् । शब्दार्थप्रकृताविति किम् । शुकवञ्ची । वृकमेशी । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गेणनिर- पेक्षा शब्दार्था भवति तत्रैव यथा स्याद् इह मा भूद् गर्दभोच्चारी कोकिला- भिव्याहारीति । एवकारकरणमुपमानावधारणार्थम् । शब्दार्थप्रकृतौ त्वनुपमा- नमुपमानं चाद्युदात्तं भवति । सिंहविनर्दी । पुष्कलजल्पी ॥ युक्तारोह्यादयश्च ॥ ८१ ॥ युक्तारोह्यादयः समासा आद्युदात्ता भवन्ति । युक्तारोही । आगत- [

५५८ ॥ काशिका ॥ ६ ॥ २ ॥ इत्यर्थः । अनिवसन्त इति किम् । दाक्षिग्रामः । माहकिग्रामः । दाक्ष्यादयो वसन्ति यस्मिन्ग्रामे स तेषामिति व्यपदिश्यते ॥ घोषादिषु च ॥ ८५ ॥ घोषादिषु चोत्तरपदेषु पूर्वपदमाद्युदात्तं भवति । दाक्षिघोषः । दाक्षि- कटः । दाक्षिपल्वलः * । दाक्षिह्रदः । दाक्षिबदरी । दाक्षिपिङ्गलः । दाक्षिपि- शङ्गः । दाक्षिशालः । दाक्षिरथः । दाक्षिशिल्पी । दाक्ष्यश्वत्थः । कुन्दतृणम् । दा- क्षिशाल्मली । आश्रममुनिः । शाल्मलिमुनिः । दाक्षिपूंसा । दाक्षिकूटः । यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीन्यपि पूर्वपदान्याद्युदात्तानि भवन्ति । अनि- वसन्त इति नानुवर्त्तयन्ति के चित् । अपरे पुनरनुवर्त्तयन्ति ॥ छात्र्यादयः शालायाम् ॥ ८६ ॥ शालायामुत्तरपदे छात्र्यादय आद्युदात्ता भवन्ति । छात्रिशाला । ऐलि- शाला । भार्य्यिशाला । छात्रि । ऐलि । भार्य्यि । व्याडि । आपिशलि । आश्र- थिङ । आपारि । गौमि । यदा शालान्तस्तत्पुरुषो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसकइत्येतस्मात्पूर्वविप्रतिषेधेन पूर्वपदमाद्युदात्तं भवति । छात्रिशालम् । ऐलिशालम् ॥ प्रस्थे ऽवृद्धमकर्क्यादीनाम् ॥ ८७ ॥ प्रस्थशब्दउत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं भवति । इन्द्रप्रस्थः । कुण्डप्रस्थः । हृदप्रस्थः । सुवर्णप्रस्थः । अवृद्धमिति किम् । दाक्षि- प्रस्थः । माहकिप्रस्थः । अकर्क्यादीनामिति किम् । कर्कीप्रस्थः । मघीप्रस्थः । कर्की । मघी । मकरी । कर्कन्धू । शमी । करीर । कटुक । कुरञ् † । बदर ॥ मालादीनां च ॥ ८८ ॥ प्रस्थइति वर्तते । प्रस्थउत्तरपदे मालादीनामादिरुदात्तो भवति । माला- प्रस्थः । शालाप्रस्थः । माला । शाला । शोणा । द्राक्षा । क्षौमा । चामा । काञ्ची । एक । काम । वृद्धार्थ आरम्भः । एकशोणाशब्दयोरेङ् प्राचां देशइति वृद्धसंज्ञा ॥ अमहन्नवं नगरे ऽनुदीचाम् ॥ ८९ ॥ नगरशब्दउत्तरपदे महन्नवशब्दवर्जितं पूर्वपदमाद्युदात्तं भवति तच्चे दु- दीचां न भवति । सुह्मनगरम् । पुण्ड्रनगरम् ‡ । अमहन्नवमिति किम् । महा- नगरम् । नवनगरम् । अनुदीचामिति किम् । नान्दीनगरम् । कान्तीनगरम् ॥

  • दाक्षिवल्लभः । पा० २ । † कदल । पा० २ । ‡ विराटनगरमिति पुस्तकान्तरे ऽधिकम् ।

अर्मे चावर्णं द्व्यच्त्र्यच् ॥ ९० ॥ अर्मशब्दउत्तरपदे द्व्यच् त्र्यच् पूर्वपदमवर्णान्तमाद्युदात्तं भवति । दत्ता- र्मम् । गुप्तार्मम् । कुक्कुटार्मम् । वायसार्मम् । अवर्णमिति किम् । बृहदर्मम् । द्व्यच्त्र्यजिति किम् । कपिञ्जलार्मम् । अमहन्नवमित्येव । महार्मम् । नवार्मम् ॥ न भूताधिकसंजीवमद्राश्मकज्जलम् ॥ ९१ ॥ भूत अधिक संजीव मद्र अश्मन् कज्जल इत्येतानि पूर्वपदानि चर्म- शब्दउत्तरपदे नाद्युदात्तानि भवन्ति । भूतार्मम् । अधिकार्मम् । संजीवार्मम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्राश्मार्मम् । कज्जलार्मम् । समासान्तोदात्तत्वमेवात्र भवति ॥ आद्युदात्तप्रकरणे दिवोदा- सादीनां छन्दस्युपसंख्यानम् ॥ * ॥ दिवोदासाय गायत । वध्यश्वाय दाशुषे ॥ अन्ततः ॥ ९२ ॥ अन्त इत्यधिकृतमित उत्तरं यद्वक्ष्यामस्तत्र पूर्वपदस्यान्त उदात्तो भव- तीत्येवं वेदितव्यम् । वक्ष्यति सर्वं गुणकार्त्स्न्ये । सर्वश्वेतः । सर्वकृष्णः । प्रागु- त्तरपदादिरित्येतस्मादयमधिकारो वेदितव्यः ॥ सर्वं गुणकार्त्स्न्ये ॥ ९३ ॥ सर्वशब्दः पूर्वपदं गुणकार्त्स्न्ये वर्त्तमानमन्तोदात्तं भवति । सर्वश्वेतः । सर्वकृष्णः । सर्वमहान् । सर्वमिति किम् । परमश्वेतः । आश्रयव्याप्त्या परमत्वं श्वेतस्येति । गुणकार्त्स्न्ये वर्त्तते । गुणग्रहणं किम् । सर्वसौवर्णः । सर्वर- जतः । कार्त्स्न्य इति किम् । सर्वेषां श्वेततरः सर्वश्वेतः । गुणोत्तरेण समास- स्तरलोपश्च वक्तव्य इत्येवमत्र समासस्तरब्लोपश्च ॥ संज्ञायां गिरिनिकाययोः ॥ ९४ ॥ संज्ञायां विषये गिरि निकाय इत्येतयोरुत्तरपदयोः पूर्वपदमन्तोदात्तं भवति । अञ्जनागिरिः भञ्जनागिरिः । निकाये । शार्पिण्डिनिकायः । मौण्डिनिकायः । चिक्किल्लिनिकायः * । संज्ञायामिति किम् । परमगिरिः । ब्राह्मणनिकायः ॥ कुमार्यां वयसि ॥ ९५ ॥ कुमार्यामुत्तरपदे वयसि गम्यमाने पूर्वपदमन्तोदात्तं भवति । वृद्धकु- मारी । जरत्कुमारी । कुमारीशब्दः पुंसा सहसंप्रयोगमात्रमुपप्रयुक्तोऽवृद्धादि- भिर्वयोविशेषवचनैः समानाधिकरणो भवति । तच्च वय इह गृह्यते न कुमा- रत्वमेव । वयसीति किम् । परमकुमारी ॥

  • चिक्कलिनिकायः । पा० २।

५६० ॥ काशिका ॥ ६ ॥ १ ॥ उदके ऽकेवले ॥ ९६ ॥ अकेवलं मिश्रं तद्वाचिनि समासे उदकशब्दउत्तरपदे पूर्वपदमन्तोदात्तं भवति । गुडमिश्रमुदकम् । गुडोदकम् । तिलोदकम् * । स्वरे कृते एकादेशः स्वरितो वानुदात्ते पदादाविति पक्षे स्वरितो भवति । अकेवलइति किम् । शीतोदकम् । उष्णोदकम् ॥ द्विगौ क्रतौ ॥ ९७ ॥ द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वपदमन्तोदात्तं भवति । गार्गित्रि- रात्रः । चारकत्रिरात्रः । कुसुरविन्दसप्तरात्रः । गर्गाणां त्रिरात्रः, गार्गित्रिरात्रः । द्विगाविति किम् । अतिरात्रः । प्रादिसमासश्चायमन्तोदात्तः । क्रताविति किम् । बिल्वसप्तरात्रः । बिल्वशताय बिल्वहोमाय वा सप्तरात्रो, बिल्वसप्तरात्रः ॥ सभायां नपुंसके ॥ ९८ ॥ सभाशब्दउत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदमन्तोदात्तं भवति । गोपा- लसभम् । पशुपालसभम् । स्त्रीसभम् । दासीसभम् । सभायामिति किम् । ब्राह्मणसभम् । नपुंसकमिति किम् । राजसभा । ब्राह्मणसभा । सभायां प्रति- पदोक्तमिह नपुंसकलिङ्गं गृह्यतइति रमणीयसभं ब्राह्मणकुलमित्यत्र न भवति ॥ पुरे प्राचाम् ॥ ९९ ॥ पुरशब्दउत्तरपदे प्राचां देशे पूर्वपदमन्तोदात्तं भवति ।

॥ काशिका ॥ ६ ॥ २ ॥ ५६१ • • दात्तानि भवन्ति । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालाबिलम् । कुसूलादिग्रहणं किम् । सर्पबिलम् । बिलइति किम् । कुसूलस्वामी ॥ दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु ॥ १०३ ॥ दिक्शब्दाः पूर्वपदानि अन्तोदात्तानि भवन्ति ग्रामजनपदाख्यानवा- चिषूत्तरपदेषु चानराटशब्दे च । पूर्वेषुकामशमी । अपरेषुकामशमी । पूर्वकृष्ण- मृत्तिका । अपरकृष्णमृत्तिका । जनपद । पूर्वपञ्चालाः । अपरपञ्चालाः । आ- ख्यान । पूर्वाधिरामम् * । पूर्वयायातम् । अपरयायातम् । अधिराममधिकृत्य कृतो ग्रन्थ आधिरामम् । तथा यायातम् । चानराट । पूर्वचानराटम् । अपर- चानराटम् । शब्दग्रहणं कालवाचिनोपि दिक्शब्दस्य परिह्यार्थम् ॥ आचार्योपसर्जनश्चान्तेवासिनि ॥ १०४ ॥ आचार्योपसर्जननान्तेवासिवाचिन्युत्तरपदे दिक्शब्दा अन्तोदात्ता भव- न्ति । पूर्वपाणिनीयाः । अपरपाणिनीयाः । पूर्वकाशकृत्स्नाः । अपरकाशकृत्स्नाः । आचार्योपसर्जन इति किम् । पूर्वशिष्याः । अन्तेवासिनीति किम् । पूर्वपाणि- नीयं शास्त्रम् ॥ उत्तरपदवृद्धौ सर्वं च ॥ १०५ ॥ उत्तरपदस्येत्यधिकृत्य या विहिता वृद्धिस्तदुत्तरपदे सर्वशब्दो दिक्- शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । पूर्वपाञ्चालकः । उत्तरपाञ्चा- लकः । सुसर्वार्द्धाद्दिक्शब्देभ्यो जनपदस्येति तदन्तविधिना जनपदलक्षणो वुञ्- प्रत्ययः । सुसर्वार्द्धाज्जनपदस्य दिशि मद्राणामिति चोत्तरपदवृद्धिः । अधिका- रलक्षणादिह न भवति सर्वमासः सर्वकारक इति ॥ बहुव्रीहौ विश्वं संज्ञायाम् ॥ १०६ ॥ बहुव्रीहौ समासे विश्वशब्दः पूर्वपदं संज्ञायां विषये ऽन्तोदात्तं भवति । विश्वदेवः । विश्वयशाः । विश्वमहान् । पूर्वपदप्रकृतिस्वरत्वेनाद्युदात्तत्वं प्राप्तम् । बहुव्रीहाविति किम् । विश्वे च ते देवाः, विश्वदेवाः । संज्ञाया- मिति किम् । विश्वे देवा अस्य विश्वदेवः । विश्वामित्रो विश्वाजिन्नित्यत्र संज्ञायां मित्राजिनयोरित्येतद्भवति परत्वात् । बहुव्रीहावित्येतदधिक्रियते प्राग- व्ययीभावसंज्ञानात् ॥ उदराश्वेषुषु ॥ १०७ ॥ ॰ ॰ ॰ उदर अश्व इषु इत्येतेषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्व-

  • पूर्वाधिराममिति चाधिकं मन्ये । ३६

५६२ ॥ काशिका ॥ ६ ॥ २ ॥ पदमन्तोदात्तं भवति । वृकोदरः । दामोदरः । हर्यश्वः । यौवनाश्वः । सुवर्च-* दृढेषुः । महेषुः ॥ क्षेपे ॥ १०८ ॥ क्षेपे गम्यमाने उदरादिषूत्तरपदेषु बहुव्रीहौ समासे संज्ञायां विषये पूर्व- पदमन्तोदात्तं भवति । कुण्डोदरः । घटोदरः । कटुकाश्वः । स्यन्दिताश्वः । अनिघातेषुः । चलाचलेषुः । अनुदरः सूदर इत्यत्र नञ्सुभ्यामित्येतद्भवति विप्र- तिषेधेन ॥ नदी बन्धुनि ॥ १०९ ॥ बहुव्रीहौ समासे बन्धूत्तरपदे नद्यन्तं पूर्वपदमन्तोदात्तं भवति । गार्गीबन्धुः । वात्सीबन्धुः । नदीति किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्यु- दात्तः । बन्धुनीति किम् । गार्गीप्रियः ॥ निष्ठोपसर्गपूर्वमन्यतरस्याम् ॥ ११० ॥ बहुव्रीहौ समासे निष्ठान्तमुपसर्गपूर्वं पूर्वपदमन्यतरस्यामन्तोदात्तं भवति । प्रधौतमुखः । २ । प्रक्षालितपादः । २ । यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे मुखं स्वाङ्गमित्येतद्भवति न चेत्पूर्वपदप्रकृतिस्वरत्वेन गतिरनन्तर इत्ये- तद्भवति । निष्ठेति किम् । प्रसेचकमुखः । उपसर्गपूर्वमिति किम् । शुष्कमुखः ॥ उत्तरपदादिः ॥ १११ ॥ उत्तरपदादिरित्येतदधिकृतम् । यदिह ऊर्ध्वमनुक्रमिष्याम उत्तरपदस्यादिरु- दात्तो भवतीत्येवं तद्वेदितव्यम् । वक्ष्यति कर्णो वर्णलक्षणात् । शुक्लकर्णः । कृष्णकर्णः । उत्तरपदस्येत्येतदा पादपरिसमाप्तेः । आदिरिति प्रकृत्या भगालमिति यावत् ॥ कर्णो वर्णलक्षणात् ॥ ११२ ॥ [

कण्ठ पृष्ठ ग्रीवा जङ्घा इत्येतानि उत्तरपदानि बहुव्रीहौ समासे संज्ञौ- पम्ययोराद्युदात्तानि भवन्ति । कण्ठः संज्ञायाम् । शितिकण्ठः । नीलकण्ठः । औपम्ये । खरकण्ठः । उष्ट्रकण्ठः । पृष्ठः संज्ञायाम् । काण्डपृष्ठः । नाकपृष्ठः । औपम्ये । गोपृष्ठः । श्वनपृष्ठः । ग्रीवा संज्ञायाम् । सुग्रीवः । नीलग्रीवः । दन्त- ग्रीवः । औपम्ये । गोग्रीवः । अश्वग्रीवः । जङ्घा संज्ञायाम् । नाडीजङ्घः । ताल- जङ्घः । औपम्ये । गोजङ्घः । अश्वजङ्घः । एणीजङ्घः ॥ शृङ्गमवस्थायां च ॥ ११५ ॥ शृङ्गशब्द उत्तरपदमवस्थायां संज्ञौपम्ययोश्च बहुव्रीहौ आद्युदात्तं भवति । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । त्र्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोवि- शेषो ऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । औपम्ये । गोशृङ्गः । मेषशृङ्गः । अव- स्थादिष्विति किम् । स्थूलशृङ्गः ॥ नञो ऽजरमरमित्रमृताः ॥ ११६ ॥ नञ उत्तरे जरमरमित्रमृता बहुव्रीहौ समासे आद्युदात्ता भवन्ति । अजरः । अमरः । अमित्रः । अमृतः * । नञ इति किम् । ब्राह्मणमित्रः । जरादय इति किम् । अशत्रुः नञ्सुभ्यामिति उत्तरपदान्तोदात्तत्वमेवात्र भवति ॥ सोर्मनसी अलोमोषसी ॥ ११७ ॥ सोरुत्तरमनन्तमसन्तं च बहुव्रीहौ समासे आद्युदात्तं भवति लोमोष- सीवर्जयित्वा । सुकर्मा । सुधर्मा । सुप्रथिमा । असन्तम् । सुपयाः । सुयशाः । सुस्रोताः । सुवपुः । सुध्वत् । सोरिति किम् । कृतकर्मा । कृतयशाः । अनसी इति किम् । सुराजा । सुतक्षा । अलोमोषसी इति किम् । सुलोमा सूषा । अनि- नस्मन्ग्रहणान्यर्थवता ऽनर्थकेन चेत्यनर्थकयोरपि मनसोरिह ग्रहणम् । नञ्सु- भ्यामित्यस्यायमपवादः । कपि तु परत्वात् कपि पूर्वमित्येतद्भवति । सुकर्मकः । सुस्रोतःकः ॥ ऋत्वादयश्च ॥ ११८ ॥ ऋत्वादयः सोरुत्तरे बहुव्रीहौ समासे आद्युदात्ता भवन्ति । सुऋतुः । सुदृशीकः । ऋतु । दृशीक । प्रतीक । प्रणीति । हव्य । भग ॥ आद्युदात्तं द्व्यच्छन्दसि ॥ ११९ ॥ यदाद्युदात्तं द्व्यच् उत्तरपदं बहुव्रीहौ समासे सोरुत्तरं तदाद्युदात्तमेव भवति छन्दसि विषये । स्वश्वास्त्वा सुरथामञ्जयेम । निस्वररेघाण्चरद्यग्यद्वा- वद्युदात्तौ । आद्युदात्तमिति किम् । या सुबाहुः स्वङ्गुरिः । बाहुशब्दः प्रत्यय-

  • अयमंशो हस्तलिखित पुस्तके नास्ति परं पुस्तकान्तरे अधिकमत्र ।

५६४ ॥ काशिका ॥ ६ ॥ २ ॥ स्वरेणान्तोदात्तः । ष्ट्रजिति किम् । सुगुरसत् । सुहिरण्यः । स्वश्वः । नञ्सु- भ्यामित्यस्यायमपवादः ॥ वीरवीर्यौ च ॥ १२० ॥ वीर वीर्य इत्येतौ च शब्दौ सोत्तरौ बहुव्रीहौ समासे छन्दसि विषये आद्युदात्तौ भवतः । सुवीरेण ते । सुवीर्यस्य पतयः स्याम । वीर्यमिति यत्प्र- त्ययान्तं तत्र यतो ऽनाव इति आद्युदात्तत्वं न भवतीत्येतदेव वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ॥ कूलतीरतूलमूलशालाक्षसममव्ययीभावे ॥ १२१ ॥ कूल तीर तूल मूल शाला अक्ष सम इत्येतानि उत्तरपदानि अव्ययी- भावसमास आद्युदात्तानि भवन्ति । परिकूलम् । उपकूलम् । परितीरम् । उप- तीरम् । परितूलम् । उपतूलम् । परिमूलम् । उपमूलम् । परिशालम् ।

भवति । विह्वलाकन्यम् । महरकन्यम् । महुर इति के चित् पठन्ति । महुर- कन्यम् । विह्वण । महरं । महुर । बैतुल । पटल्क । वैहालिकर्णः । वैतालि- कर्णिरित्यन्ये पठन्ति । कुक्कुट । चित्कण । चिक्कण इत्यपरे पठन्ति । आदि- रिति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थम् ॥ चेलखेटकटुककाण्डं गर्हायाम् ॥ १२६ ॥ चेल खेट कटुक काण्ड इत्येतान्युत्तरपदानि तत्पुरुषे समासे गर्हायां गम्य- मानायामाद्युदात्तानि भवन्ति । पुत्रचेलम् । भार्याचेलम् । उपानत्खेटम् । नगर- खेटम् । दधिकटुकम् । उदश्वित्कटुकम् । भूतकाण्डम् । प्रजाकाण्डम् । चेलादि- सादृश्येन पुत्रादीनां गर्हा । तत्र पुत्रश्चेलमिवेति विगृह्य व्याघ्रादेराकृतिगणत्वाद् उपमितं व्याघ्रादिभिरिति समासः । गर्हायामिति किम् । परमचेलम् ॥ चीरमुपमानम् ॥ १२७ ॥ चीरमुत्तरपदमुपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति । वस्त्रं चीर- मिव, वस्त्रचीरम् । पटचीरम् । कम्बलचीरम् । उपमानमिति किम् । परमचीरम् ॥ पललसूपशाकं मिश्रे ॥ १२८ ॥ पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समासे आद्यु- दात्तानि भवन्ति । गुडपललम् । घृतपललम् । घृतसूपः । मूलकसूपः । घृतशा- कम् । मुद्रशाकम् । गुडेन मिश्रं पललं, गुडपललम् । भक्ष्यण मिश्रीकरणमिति समासः । मिश्रेति किम् । परमपललम् ॥ कूलसूदस्थलकर्षाः संज्ञायाम् ॥ १२६ ॥ कूल सूद स्थल कर्ष इत्येतान्युत्तरपदानि तत्पुरुषे समासे संज्ञायां विषये आद्युदात्तानि भवन्ति । दात्तिकूलम् । माहकिकूलम् । देवसूदम् । भाजीसू- दम् । दायहायनस्थली । माहकिस्थली । दात्तिकर्षः । ग्रामनामधेयान्येतानि । स्थलग्रहणे लिङ्गविशिष्टत्वात्स्थलीशब्दोऽपि गृह्यते । जानपदकुण्डेत्यनेन ङीष् । संज्ञायामिति किम् । परमकूलम् ॥ अकर्मधारये राज्यम् ॥ १३० ॥ कर्मधारयवर्जिते तत्पुरुषे समासे राज्यमित्येतदुत्तरपदमाद्युदात्तं भवति । ब्राह्मणराज्यम् । क्षत्रियराज्यम् । अकर्मधारयेति किम् । परमराज्यम् । चेल- राज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन । कुचेलम् । कुराज्यम् ॥ वर्गादयश्च ॥ १३१ ॥ वर्ग्य इत्येवमादीन्युत्तरपदानि चाकर्मधारये तत्पुरुषे समासे आद्युदात्तानि भवन्ति । वासुदेववर्ग्यः । वासुदेवपक्ष्यः । अर्जुनवर्ग्यः । अर्जुनपक्ष्यः । अकर्म-

५६६ ॥ काशिका ॥ ६ । २ ॥ धारयत्येव । परमवर्यः । वर्यादयः प्रातिपदिकेषु न पठ्यन्ते । दिगादिषु तु वर्ग पूग गण पक्ष इत्येवमादयो ये पठितास्तएव यत्प्रत्ययान्ता वर्यादय इह- प्रतिपत्तव्याः ॥ पुत्रः पुम्भ्यः ॥ १३२ ॥ पुत्रशब्दः पुंशब्देभ्य उत्तरस्तत्पुरुषे आद्युदात्तो भवति । कौनाटपुत्रः । दामकपुत्रः । माहिषकपुत्रः । पुत्र इति किम् । कौनाटिमातुलः । पुम्भ्य इति किम् । गार्गीपुत्रः । वात्सीपुत्रः ॥ नाचाय्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ॥ १३३ ॥ आचार्य उपाध्‍यायः । राजा ईश्वरः । ऋत्विजो याजकाः । संयुक्ताः स्त्री- संबन्धिनः श्यालादयः । ज्ञातयः मातृपितृसंबन्धिनो बान्धवाः । आचार्याख्या- ख्येभ्यः परः पुत्रशब्दो नाद्युदात्तो भवति । आख्याग्रहणात्स्वरूपस्य पर्यायाणां विशेषाणां च ग्रहणं भवति । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुःपुत्रः । संयुक्तपुत्रः । संबन्धिपुत्रः । श्यालपुत्रः । ज्ञातिपुत्रः । भ्रातृपुत्रः । यतो विद्यायो- निसंबन्धेभ्य इति षष्ठ्या अलुक् । पुत्रस्वरे प्रतिषिद्धे समासान्तोदात्तत्वमेव भवति ॥ चूर्णादीन्यप्राणिषष्ठ्याः ॥ १३४ ॥ उत्तरपदादिरिति वर्तते तत्पुरुषइति च । चूर्णादीन्युत्तरपदानि अप्राणि- वाचिनः षष्ठ्यन्तात्पराणि तत्पुरुषे समासे आद्युदात्तानि भवन्ति । मुद्गचूर्णम् । मसूरचूर्णम् । अप्राणिषष्ठ्या इति किम् । मत्स्यचूर्णम् । षष्ठ्या इति किम् । पर- मंचूर्णम् । चूर्ण । करिप । करिव । शाकिन । शकट । द्राक्षा । तृस्त । कुन्दम । दलप । चमसी । चकन * । चोल । चूर्णादीन्यप्रायुपग्रहादिति सूत्रस्य पाठा- न्तरम् । तत्रोपग्रह इति षष्ठ्यन्तमेव पूर्वाचार्योपचारेण गृह्यते ॥ षट् च काण्डादीनि ॥ १३५ ॥ षट् पूर्वोक्तानि काण्डादीन्युत्तरपदानि अप्राणिषष्ठ्या आद्युदात्तानि भव- न्ति । काण्डं गर्हायामित्युक्तमगहायामपि भवति । दर्भकाण्डम् । शरकाण्डम् । चीरमुपमानमित्युक्तमनुपमानमपि भवति । दर्भचीरम् । कुशचीरम् । पललसू- पशाकं मिश्रत्युक्तममिश्रेपि भवति । तिलपललम् । मुद्गसूपः । मूलकशाकम् । कूलं संज्ञायामित्युक्तमसंज्ञायामपि भवति । नदीकूलम् । समुद्रकूलम् । षडिति किम् । राजसूदः † ॥

  • चक्वनेत्यन्ये पठन्ति । इति पदमञ्जरी । † अप्राणिषष्ठ्या इति किम् । दैवतसकाण्ड इत्यधिकं पुस्तकान्तरे ।

॥ काशिका ॥ ६ ॥ २ ॥ ५६७ कुण्डं वनम् ॥ १३६ ॥ कुण्डशब्दोऽत्र कुण्डसादृश्येन वने वर्तते । कुण्डमित्येतदुत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति । दर्भकुण्डम् । शरकुण्डम् । वनमिति किम् । मृत्कुण्डम् ॥ प्रकृत्या भगलम् ॥ १३७ ॥ भगलवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । कुम्भीभगलम् । कुम्भीकपालम् । कुम्भीनदालम् । भगलादयो मध्योदात्ताः । प्रकृत्येत्येतदधिकृ- तमन्त इति यावद्वेदितव्यम् ॥ शितेर्नित्याबहुज् बहुव्रीहावभसत् ॥ १३८ ॥ शितेरुत्तरपदं नित्यं यदबहुज् भसच्छब्दवर्जितं बहुव्रीहौ समासे तत्प्र- कृतिस्वरं भवति । शितिपादः । शित्यंसः । शित्योष्ठः । पादशब्दो वृषादि- त्वादाद्युदात्तः । अंशौष्ठशब्दौ च प्रत्ययस्य नित्त्वात् । शितेरिति किम् । दर्श- नीयपादः । नित्यग्रहणं किम् । शितिककुत् । ककुदस्यावस्थायां लोपो विधी- यते । तन्नावस्थाया अन्यत्र शितिककुद इति बहुजुत्तरपदं भवतीति तेन न नित्याबहुच् । अबहुजिति किम् । शितिललाटः । बहुव्रीहाविति किम् । शितेः पादः, शितिपादः । अभसदिति किम् । शितिभसत् । शितिशब्द आद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादो योगः ॥ गतिकारकोपपदात्कृत् ॥ १३९ ॥ तत्पुरुष इति वर्तते न बहुव्रीहाविति । गतेः कारकादुपपदाच्च कृदन्त- मुत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । प्रकारकः । प्रकर्त्ता । प्रहारकः । प्रहर्त्ता । कारकात् । इध्मप्रव्रश्चनः । पलाशशातनः । श्मश्रुकल्पनः । उपप- दात् । ईषत्करः । दुष्करः । सुकरः । सर्वत्रैवात्र लित्स्वरः । गतिकारकोपप- दादिति किम् । देवदत्तस्य कारको, देवदत्तकारकः । देवदत्तस्येति शेषलक्षणा षष्ठी । कृद्ग्रहणं विस्पष्टार्थम् । प्रपचतितराम् । प्रपचतितमाम् । इत्यत्र तरबा- द्यन्तेन समासे कृते पश्चादाम् । तत्र सतिशिष्टत्वादाम एव स्वरो भवतीत्येके । प्रपचति । देश्याद्यर्थे तु कृद्ग्रहणं दृश्यतएव ॥ उभे वनस्पत्यादिषु युगपत् ॥ १४० ॥ प्रकृत्येति वर्तते । वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत् प्रकृ- तिस्वरं भवतः । वनस्पतिः । वनपतिशब्दावाद्युदात्तौ पारस्करप्रभृतित्वात् सुट् । बृहस्पतिः । बृहतां पतिः । तद्बृहतोः करपत्योरचोर्देवसयोः सुट् तलो- पश्चेति सुट् तकारलोपश्च । बृहदित्येतदन्तोदात्तं निपातयन्ति । तस्य के चि-

३६८ ॥ काशिका ॥ ६ ॥ २ ॥ दायुदात्तत्वं वक्ष्यति। शचीपतिः। शचीशब्दः हृदिकारादक्तिन् इति ङीष्- न्तात्वादन्तोदात्तः। के चित्तु शार्ङ्गरवादिषु पठन्ति तेषामाद्युदात्तः। तनून- पात्। तनोतेरौणादिक उप्रत्ययस्तेन तनूशब्दोऽन्तोदात्तः। न पाति न पाल- यति वा नपात् क्विबन्तः। नभ्राण्नपादित्यादिना ऽऽद्युदात्तो निपातितः। तन्वा नपात्, तनूनपात्। नराशंसः। नरा अस्मिन्नासीनाः शंसन्ति नरा इमं शंसन्तीति वा नराशंसः। नॄ नये। ऋबन्तो नरशब्द आद्युदात्तः। शंसशब्दोऽपि घञन्तः। अन्येषामपि दृश्यतइति दीर्घत्वम्। शुनःशेपः। शुनव शेपो ऽस्येति बहुव्रीहिः। तत्र शेपपुच्छलाङ्गूलेषु शुनः संज्ञायामिति षष्ठ्या अलुक्। उभावौ- द्युदात्तौ। शण्डावर्कौ। शण्डामर्कशब्दौ घञन्तत्वादाद्युदात्तौ। तयोर्द्वन्द्वे ऽन्ये- षामपि दृश्यतइति दीर्घत्वम्। तृष्णावरूत्री। तृष्णाशब्द आद्युदात्तः। वरूत्रीशब्दो ऽसितादिसूत्रे निपातितोऽन्तोदात्तः। तत्र द्वन्द्वे दीर्घत्वं पूर्ववत्। बम्बावि- श्ववयसौ। बम्बशब्दोऽन्तोदात्तः। विश्ववयःशब्दोपि बहुव्रीहिः। विश्वं संज्ञाया- मिति विश्वशब्दोऽन्तोदात्तः। तयोर्द्वन्द्वे दीर्घत्वं पूर्ववत्। मर्मृत्युः। मरिति मृञो विप्प्रत्ययः। मृत्युशब्दोऽन्तोदात्तः। द्वन्द्वानामदेवताद्वन्द्वार्थो ऽनुदात्ताद्यु- त्तरपदार्थश्च वनस्पत्यादिषु पाठः॥ देवताद्वन्द्वे च ॥ १४१ ॥ देवतावाचिनां यो द्वन्द्वस्तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः। इन्द्रासोमौ। इन्द्रावरुणौ। इन्द्राबृहस्पती। ऋजेन्द्रेयेति इन्द्रशब्द आद्यु- दात्तो निपातितः। सोम इति मन्प्रत्ययान्तः *। वरुण उनन्प्रत्ययान्तस्तेना- द्युदात्तः। बृहस्पतिशब्दे वनस्पत्यादित्वाद् द्वावुदात्तौ, तेनेन्द्राबृहस्पती इत्यत्र त्रय उदात्ता भवन्ति। देवताग्रहणं किम्। प्लक्षन्यग्रोधौ। द्वन्द्वग्रहणं किम्। अग्निष्टोमः॥ नोत्तरपदे ऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु ॥ १४२ ॥ उत्तरपदे ऽनुदात्तादौ पृथिवीरुद्रपूषमन्थिवर्जिते देवताद्वन्द्वे नोभे युग- पत्प्रकृतिस्वरे भवतः। इन्द्राग्नी। इन्द्रवायू। अग्निवायुशब्दावन्तोदात्तौ। उत्तरपदग्रहणमनुदात्तादावित्यउत्तरपदविशेषणं यथा स्याद् द्वन्द्वविशेषणं मा भूदिति। अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम्। अपृथिव्यादि- ष्विति किम्। द्यावापृथिव्यौ। द्यावाशब्द आद्युदात्तो निपातितः। पृथिवी- शब्दो ङीष्प्रत्ययान्तत्वादन्तोदात्तः। रुद्र। सोमारुद्रौ। रोदेर्णिलुक् चेति रुद्रशब्दो रक्प्रत्ययान्तोऽन्तोदात्तः। पूषन्। इन्द्रापूषणा। श्वन्नुक्षन्पूषन्निति पूष-

  • नित्याद्याद्युदात्त इत्यधिकमत्रास्ति ।

सीदन्ति निपात्यन्ते । मन्विन् । शुक्रामन्विने । मन्वोस्यास्तीति मन्वी । रव- न्त्वाद्यन्तोदात्तः । पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव ॥ अन्ततः ॥ १४३ ॥ अन्त इत्यधिकारो यदित ऊर्ध्वमनुक्रमिष्यामस्तत्र समासस्योत्तरपद- स्यान्त उदात्तो भवतीत्येवं तद्वेदितव्यम् । वक्ष्यति । थाथघञ्क्ताजबित्रकाणा- मिति । सुनीथः । अवभृथः ॥ थाथघञ्क्ताजबित्रकाणाम् ॥ १४४ ॥ थ अथ घञ् क्त अच् अप् इत्र क इत्येवमन्तानामुत्तरपदानां गतिकार- कोपपदात्परेषामन्त उदात्तो भवति । सुनीथः । अवभृथः । हनिकुषिनीरमि- काशिभ्यः क्थन् इति भावे भृञ इति च क्थन्प्रत्ययान्तावेतौ । तत्र कृदुत्तरपद- प्रकृतिस्वरत्वेनाद्युदात्तमुत्तरपदं स्यात् । अथ । आवसथः । उपवसथः । उपसर्गे वसेरथन्प्रत्ययः । घञ् । प्रभेदः । काष्ठभेदः । रज्जुभेदः । क्त । दूरादागतः । विशुष्कः । आतपशुष्कः । अच् । प्रत्ययः । प्रजयः । क्षयो निवासे जयः करणम् इति चाद्युदात्तौ क्षयजयशब्दौ प्रयोज्यतः । अप् । प्रलवः । प्रसवः । इत्र । प्रलवित्रम् । प्रसवित्रम् । क । गोवृषः खरीवृषः । गां वर्षति खरो वर्षतीति मूलविभुजादित्वात्कप्रत्ययः । प्रवृषः । प्रहृषः । इगुपधादिति कप्रत्ययः । वृषा- दीनां चेति वृषशब्द आद्युदात्तः । गतिकारकोपपदादित्येव । सुस्तुतं भवता । कर्मप्रवचनीये ऽव्ययस्वर एव भवति ॥ सूपमानात् क्तः ॥ १४५ ॥ सु इत्येतस्मादुपमानाच्च परं क्तान्तमुत्तरपदमन्तोदात्तं भवति । सुकृ- तम् । सुभुक्तम् । सुप्रीतम् । उपमानात् । वृकावलुप्तम् । शशप्लुतम् । सिंह- विर्नाद्दष्टम् । सुशब्दाद् गतिरनन्तर इति प्राप्ते उपमानादपि तृतीया कर्मणी- त्ययमपवादः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ॥ संज्ञायामनाचितादीनाम् ॥ १४६ ॥ संज्ञायां विषये गतिकारकोपपदात् क्तान्तमुत्तरपदमन्तोदात्तं भवति आचितादीन्वयित्वा । संभूतो रामायणः । उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । संभूत इति आप्रत्ययाद् भवतेः कर्मणि क्तः । गतिरनन्तर इत्यस्य हि कर्मणीत्यनुवर्तते तद्वाधनार्थं चेदम् । धनुःखाता नदी । कुद्दालखातं नग- रम् । हस्तिप्रविद्धा भूमिः । तृतीया कर्मणीति प्राप्तिरिह बाध्यते । अना- चितादीनामिति किम् । आचितम् । पर्याचितम् । आख्यायितम् । परिव- १ ...... • काशि० । पा० २ ।