काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 566, कुल 828 में से
संदर्भ में पढ़ेंभवति । विह्वलाकन्यम् । महरकन्यम् । महुर इति के चित् पठन्ति । महुर- कन्यम् । विह्वण । महरं । महुर । बैतुल । पटल्क । वैहालिकर्णः । वैतालि- कर्णिरित्यन्ये पठन्ति । कुक्कुट । चित्कण । चिक्कण इत्यपरे पठन्ति । आदि- रिति वर्तमाने पुनरादिग्रहणं पूर्वपदाद्युदात्तार्थम् ॥ चेलखेटकटुककाण्डं गर्हायाम् ॥ १२६ ॥ चेल खेट कटुक काण्ड इत्येतान्युत्तरपदानि तत्पुरुषे समासे गर्हायां गम्य- मानायामाद्युदात्तानि भवन्ति । पुत्रचेलम् । भार्याचेलम् । उपानत्खेटम् । नगर- खेटम् । दधिकटुकम् । उदश्वित्कटुकम् । भूतकाण्डम् । प्रजाकाण्डम् । चेलादि- सादृश्येन पुत्रादीनां गर्हा । तत्र पुत्रश्चेलमिवेति विगृह्य व्याघ्रादेराकृतिगणत्वाद् उपमितं व्याघ्रादिभिरिति समासः । गर्हायामिति किम् । परमचेलम् ॥ चीरमुपमानम् ॥ १२७ ॥ चीरमुत्तरपदमुपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति । वस्त्रं चीर- मिव, वस्त्रचीरम् । पटचीरम् । कम्बलचीरम् । उपमानमिति किम् । परमचीरम् ॥ पललसूपशाकं मिश्रे ॥ १२८ ॥ पलल सूप शाक इत्येतान्युत्तरपदानि मिश्रवाचिनि तत्पुरुषे समासे आद्यु- दात्तानि भवन्ति । गुडपललम् । घृतपललम् । घृतसूपः । मूलकसूपः । घृतशा- कम् । मुद्रशाकम् । गुडेन मिश्रं पललं, गुडपललम् । भक्ष्यण मिश्रीकरणमिति समासः । मिश्रेति किम् । परमपललम् ॥ कूलसूदस्थलकर्षाः संज्ञायाम् ॥ १२६ ॥ कूल सूद स्थल कर्ष इत्येतान्युत्तरपदानि तत्पुरुषे समासे संज्ञायां विषये आद्युदात्तानि भवन्ति । दात्तिकूलम् । माहकिकूलम् । देवसूदम् । भाजीसू- दम् । दायहायनस्थली । माहकिस्थली । दात्तिकर्षः । ग्रामनामधेयान्येतानि । स्थलग्रहणे लिङ्गविशिष्टत्वात्स्थलीशब्दोऽपि गृह्यते । जानपदकुण्डेत्यनेन ङीष् । संज्ञायामिति किम् । परमकूलम् ॥ अकर्मधारये राज्यम् ॥ १३० ॥ कर्मधारयवर्जिते तत्पुरुषे समासे राज्यमित्येतदुत्तरपदमाद्युदात्तं भवति । ब्राह्मणराज्यम् । क्षत्रियराज्यम् । अकर्मधारयेति किम् । परमराज्यम् । चेल- राज्यादिस्वरादव्ययस्वरो भवति पूर्वविप्रतिषेधेन । कुचेलम् । कुराज्यम् ॥ वर्गादयश्च ॥ १३१ ॥ वर्ग्य इत्येवमादीन्युत्तरपदानि चाकर्मधारये तत्पुरुषे समासे आद्युदात्तानि भवन्ति । वासुदेववर्ग्यः । वासुदेवपक्ष्यः । अर्जुनवर्ग्यः । अर्जुनपक्ष्यः । अकर्म-