काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 556, कुल 828 में से
संदर्भ में पढ़ेंपितः । २ । पापकुलालः । २ । पापाच्छङ्गे कुत्सितैरिति प्रतिपदोक्तः पापश- ब्दस्य समानाधिकरणसमास इति षष्ठीसमासे न भवति । पापस्य नापितः, पापनापित इति ॥ गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे ॥ ६९ ॥ गोत्रवाचिन्यन्तेवासिवाचिनि चोत्तरपदे माणवब्राह्मणयोश्च क्षेपवाचिनि समासे पूर्वपदमाद्युदात्तं भवति । जङ्घावात्स्यः । यो जङ्घादानं ददान्यह- मिति वात्स्यः संपद्यते स जङ्घावात्स्य इति क्षिप्यते । भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । वशाब्राह्मणकृतयः । ब्राह्मणकृतशब्दः शुना- दिषु पठ्यते । गोत्र । अन्तेवासि । कुमारीदात्ताः । काम्बलचारायणीयाः । घृतरौढीयाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दात्तादिभिः प्रोक्तानि शास्त्राण्यधीयते तच्छिष्यतां वा प्रतिपद्यन्ते