काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 555, कुल 828 में से
संदर्भ में पढ़ें५५४ ॥ काशिका ॥ ६ ॥ २ ॥ राजगुणाध्यारोपेणोत्तरपदार्थस्य प्रशंसा। षष्ठीसमासे च राजयोग्यताया तस्य। राजेति किम्। परमनापितः। प्रशंसायामिति किम्। राजनापितः। शिल्पि- नित्येव। राजहस्ती॥ आदिरुदात्तः ॥ ६४ ॥ आदिरुदात्त इत्येतदधिकृतमित उत्तरं यद्वक्ष्यामस्तत्र पूर्वपदस्यादिरु- दात्तो भवतीत्येवं तद्वेदितव्यम्। वक्ष्यति सप्तमीहारिणौ धर्म्येऽहरणे इति। स्तूपेशाखः। मुकुटेकार्षापणम्। याजिकाश्वः। वैयाकरणहस्ती। दृषदिमाषकः। आदिरिति प्रागन्ताधिकारात्। उदात्त इति प्रकृत्या भगलमिति यावत् ॥ सप्तमीहारिणौ धर्म्ये ऽहरणे ॥ ६५ ॥ सप्तम्यन्तं हारिवाचि च पूर्वपदं धर्म्यवाचिनि हरणशब्दादन्यस्मिन्नुत्तरपदे आद्युदात्तं भवति। हारीति देयं यः स्वीकरोति सोऽभिधीयते। धर्म्यमित्या- चारनियतं देयमुच्यते, धर्मो ह्यनुवृत्त आचारस्तस्मादनपेतं तेन वा प्राप्यमिति। स्तूपेशाखः। मुकुटेकार्षापणम्। हलेद्विपदिका। हलेत्रिपदिका। दृषदिमा- षकः। संज्ञायामिति सप्तमीसमासः, कारनाम्नि चेति विभक्तेर्लुक्। हारिणि। याजिकाश्वः। वैयाकरणहस्ती। मातुलाश्वः। पितृव्यगवः। क्व चिदयमाचारो व्यवस्थितस्तूपादिषु शाखादि दातव्यं याजिकादीनामश्वादीति। धर्म्येति किम्। स्तम्बेरमः। कर्मकरवर्त्तितकः*। अहरणेति किम्। वाडवहरणम्। वडबाया अयं वाडवः। तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते हर- णमिति तदुच्यते। परोऽपि कृत्स्वरो हारिस्वरेण बाध्यते विप्रतिषेधेनेत्येतदह- रणत्यनेन ज्ञाप्यते, तेन वाडवहार्यमिति हारिस्वरः सिद्धो भवति ॥ युक्ते च ॥ ६६ ॥ युक्तवाचिनि च समासे पूर्वपदमाद्युदात्तं भवति। गोवल्लवः। चाश्व- वल्लवः। गोमहिन्दः। अश्वमहिन्दः। गोसंख्यः। चाश्वसंख्यः। युक्त इति समाहितः कर्त्तव्ये तत्परो यः स उच्यते॥ विभाषा ऽध्यक्षे ॥ ६७ ॥ अध्यक्षशब्दउत्तरपदे विभाषा पूर्वपदमाद्युदात्तं भवति। गवाध्यक्षः। २। अश्वाध्यक्षः। २॥ पापं च शिल्पिनि ॥ ६८ ॥ पापशब्दः शिल्पियाचिन्युत्तरपदे विभाषा ऽऽद्युदात्तो भवति पापना-
- वर्त्तितको नाम मूले स्थूलो ऽग्रे सूक्ष्म ओदनपिण्डः स कर्मकराय दीयते ऽन्यथा कर्म न कुर्यादिति न त्वयं धर्म इति पदमञ्जरी।