काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 568, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ २ ॥ ५६७ कुण्डं वनम् ॥ १३६ ॥ कुण्डशब्दोऽत्र कुण्डसादृश्येन वने वर्तते । कुण्डमित्येतदुत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति । दर्भकुण्डम् । शरकुण्डम् । वनमिति किम् । मृत्कुण्डम् ॥ प्रकृत्या भगलम् ॥ १३७ ॥ भगलवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । कुम्भीभगलम् । कुम्भीकपालम् । कुम्भीनदालम् । भगलादयो मध्योदात्ताः । प्रकृत्येत्येतदधिकृ- तमन्त इति यावद्वेदितव्यम् ॥ शितेर्नित्याबहुज् बहुव्रीहावभसत् ॥ १३८ ॥ शितेरुत्तरपदं नित्यं यदबहुज् भसच्छब्दवर्जितं बहुव्रीहौ समासे तत्प्र- कृतिस्वरं भवति । शितिपादः । शित्यंसः । शित्योष्ठः । पादशब्दो वृषादि- त्वादाद्युदात्तः । अंशौष्ठशब्दौ च प्रत्ययस्य नित्त्वात् । शितेरिति किम् । दर्श- नीयपादः । नित्यग्रहणं किम् । शितिककुत् । ककुदस्यावस्थायां लोपो विधी- यते । तन्नावस्थाया अन्यत्र शितिककुद इति बहुजुत्तरपदं भवतीति तेन न नित्याबहुच् । अबहुजिति किम् । शितिललाटः । बहुव्रीहाविति किम् । शितेः पादः, शितिपादः । अभसदिति किम् । शितिभसत् । शितिशब्द आद्युदात्तः । पूर्वपदप्रकृतिस्वरापवादो योगः ॥ गतिकारकोपपदात्कृत् ॥ १३९ ॥ तत्पुरुष इति वर्तते न बहुव्रीहाविति । गतेः कारकादुपपदाच्च कृदन्त- मुत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । प्रकारकः । प्रकर्त्ता । प्रहारकः । प्रहर्त्ता । कारकात् । इध्मप्रव्रश्चनः । पलाशशातनः । श्मश्रुकल्पनः । उपप- दात् । ईषत्करः । दुष्करः । सुकरः । सर्वत्रैवात्र लित्स्वरः । गतिकारकोपप- दादिति किम् । देवदत्तस्य कारको, देवदत्तकारकः । देवदत्तस्येति शेषलक्षणा षष्ठी । कृद्ग्रहणं विस्पष्टार्थम् । प्रपचतितराम् । प्रपचतितमाम् । इत्यत्र तरबा- द्यन्तेन समासे कृते पश्चादाम् । तत्र सतिशिष्टत्वादाम एव स्वरो भवतीत्येके । प्रपचति । देश्याद्यर्थे तु कृद्ग्रहणं दृश्यतएव ॥ उभे वनस्पत्यादिषु युगपत् ॥ १४० ॥ प्रकृत्येति वर्तते । वनस्पत्यादिषु समासेषु उभे पूर्वोत्तरपदे युगपत् प्रकृ- तिस्वरं भवतः । वनस्पतिः । वनपतिशब्दावाद्युदात्तौ पारस्करप्रभृतित्वात् सुट् । बृहस्पतिः । बृहतां पतिः । तद्बृहतोः करपत्योरचोर्देवसयोः सुट् तलो- पश्चेति सुट् तकारलोपश्च । बृहदित्येतदन्तोदात्तं निपातयन्ति । तस्य के चि-