काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 586, कुल 828 में से
संदर्भ में पढ़ेंवक्तव्यः ॥ * ॥ देवानांप्रियः ॥ शेषपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग्व- क्तव्यः ॥ * ॥ शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः ॥ दिवश्च दासे षष्ठ्या अलु- ग्वक्तव्यः ॥ * ॥ दिवोदासाय गायति ॥ पुत्रे ऽन्यतरस्याम् ॥ २२ ॥ पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने ऽन्यतरस्यां षष्ठ्या अलुग्भवति। दास्याः पुत्रः, दासीपुत्रः । वृषल्याः पुत्रः, वृषलीपुत्रः । आक्रोश इत्येव । ब्राह्मणीपुत्रः ॥ ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २३ ॥ ऋकारान्तेभ्यो विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्चोत्तरस्याः षष्ठ्या अलुग्भवति । होतुरन्तेवासी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः । ऋत इति किम् । आचार्यपुत्रः । मातुलपुत्रः ॥ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वो- त्तरपदग्रहणम् ॥ विद्यायोनि संबन्धवाचिन्येवोत्तरपदे यथा स्यादन्यत्र मा भूत् । होतृधनम् । पितृधनम् । होतृगृहम् । पितृगृहम् ॥ विभाषा स्वसृपत्योः ॥ २४ ॥ स्वसृ पति इत्येतयोरुत्तरपदयोर्ऋकारान्तेभ्यो विद्यायोनिसंबन्धवाचिभ्यो विभाषा ऽलुग्भवति । मातुःष्वसा । मातुःस्वसा । मातृष्वसा । पितुःष्वसा । पितुःस्वसा । पितृष्वसा । यदा लुक् तदा मातृपितृभ्यां स्वसेति नित्यं षत्व- म् । यदा त्वलुक् तदा मातुःपितृभ्यामन्यतरस्यामिति विकल्पेन षत्वम् । दुहितुः पतिः । दुहितृपतिः । ननान्दुः पतिः । ननान्दृपतिः ॥ आनङ् ऋतो द्वन्द्वे ॥ २५ ॥ ऋकारान्तानां विद्यायोनिसंबन्धवाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपद- स्थानङादेशो भवति । होतापोतारौ । नेष्टोद्गातारौ । प्रशास्तारप्रतिहर्तारौ । योनिसंबन्धेभ्यः । मातापितरौ । याताननान्दरौ । नकारोच्चारणं रपरत्वनिवृत्त्य- र्थम् । ऋत इति किम् । पितृपितामहौ । पुत्रइत्यनुवर्त्तते ऋत इति च । तेन पुत्रशब्देप्युत्तरपदे ऋकारान्तस्यानङादेशो भवति । पितापुत्रौ । मातापुत्रौ ॥ देवताद्वन्द्वे च ॥ २६ ॥ देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति । इन्द्रावरुणौ । इन्द्रासोमौ । इन्द्राबृहस्पती । द्वन्द्वइति वर्त्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यार्थम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वइति निपात्यते । तत्र ये लोके प्रसिद्धसाहचर्या वेदे च सहभावेन ये निर्द्दिष्टास्तेषामिह ग्रहणं भवति । तेन ब्रह्मप्रजापती शिववैश्रवणावित्येवमादौ न भवति ॥ उभयत्र वायोः प्रतिषेधो वक्तव्यः ॥ * ॥ अग्निवायू । वाय्वग्नी ॥