काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 587, कुल 828 में से
संदर्भ में पढ़ें५८६ ॥ काशिका ॥ ६ । ३ ॥ ईदग्नेः सोमवरुणयोः ॥ २७ ॥ सोम वरुण इत्येतयोर्देवताद्वन्द्वे ऽग्नेरीकारादेशो भवति । अग्नीषोमौ । अग्नीवरुणौ । अग्नेः स्तुतस्तोमसोमा इति षत्वम् ॥ इद्दृद्धौ ॥ २८ ॥ ऋत्यवृद्धावुत्तरपदे देवताद्वन्द्वे ऽग्नेरिकारादेशो भवति । आग्निमारुती- मनड्वाहीमालभेत । आग्निमारुतं कर्म्म क्रियते । अग्नीवरुणौ देवता ऽस्य आग्नीमरुतो देवतास्येति तद्धितः । तत्र देवताद्वन्द्वे चेत्युभयपदवृद्धौ कृताया- मानङ् ह्रस्वं च बाधितुमिकारः क्रियते । वृद्धाविति किम् । आग्नेन्द्रः । नेन्द्रस्य परस्येत्युत्तरपदवृद्धिः प्रतिषिध्यते ॥ इद्दृद्धौ विष्णोः प्रतिषेधो । वक्तव्यः ॥ * ॥ आग्नावैष्णवं चरुं निर्वपेत् ॥ दिवो द्यावा ॥ २९ ॥ दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । द्यावाक्षामा । द्यावाभूमी * ॥ दिवसश्च पृथिव्याम् ॥ ३० ॥ पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति चका- राद् द्यावा च । दिवसंपृथिव्यौ । द्यावापृथिव्यौ । अकारोच्चारणं सकारस्य विकाराभावप्रतिपत्त्यर्थम् । तेन रुत्वादीनि न भवन्ति । कथं द्यावा चिदस्मै पृथिवी नमेते इति । क्लीबेऽत्र यणः ॥ उषासोषासः ॥ ३१ ॥ उषस उषासा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । उषासा- सूर्य्यम् । उषासानक्ता ॥ मातरपितरावुदीचाम् ॥ ३२ ॥ मातरपितरावित्युदीचामाचार्याणां मतेनारङादेशो मातृशब्दस्य निपात्यते । मातरपितरौ । उदीचामिति किम् । मातापितरौ ॥ पितरामातरा च च्छन्दसि ॥ ३३ ॥ पितरामातरा इति छन्दसि निपात्यते । आ मा गन्तां पितरामातरा च। पूर्वपदस्य चाङादेशो निपात्यते। उत्तरपदे तु सुप्सुं सुलुगिति आकारादेशः । तत्र ऋतो ङिसर्वनामस्थानयोरिति गुणः । छन्दसि किम् । मातापितरौ ॥
- द्यौश्च पृथिवी च द्यावापृथिव्यौ इत्यधिकं पुस्तकान्तरे ।