काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 59, कुल 828 में से
संदर्भ में पढ़ें५२ ॥ काशिका ॥ १ ॥ ३ ॥ वद इति वर्तते । व्यक्तवाचां समुच्चारणं सहोच्चारणं तत्र वर्तमानाद्व- दतेरात्मनेपदं भवति । ननु वद व्यक्तायां वाचीत्येव पठ्यते तत्र किं व्यक्तवा- चामिति विशेषणेन । प्रसिद्धोपसंग्रहार्थमेतत् । व्यक्तवाच इति हि मनुष्याः प्रसि- द्धाः तेषां समुच्चारणे यथा स्यात् । संप्रवदन्ते ब्राह्मणाः । संप्रवदन्ते क्षत्रियाः । व्यक्तवाचामिति किम् । संप्रवदन्ति कुक्कुटाः । समुच्चारणइति किम् । ब्राह्म- णो वदति । क्षत्रियो वदति ॥ अनोरकर्मकात् ॥ ४९ ॥ वद इति व्यक्तवाचामिति च वर्तते । अनुपूर्वाद्बदतेरकर्मकाद्व्यक्तवाग्विष- यादात्मनेपदं भवति । अनुवदते कठः कलापस्य । अनुवदते मोदः पैप्पलादस्य । अनुः सादृश्ये । यथा कलापोऽधीयानो वदति तथा कठ इत्यर्थः । अकर्मकादिति किम् । पूर्वमेव यजुरुदितमनुवदति । व्यक्तवाचामित्येव । अनुवदतिवीणा ॥ विभाषा विप्रलापे ॥ ५० ॥ वद इति वर्तते । व्यक्तवाचां समुच्चारण इति च । विप्रलापात्मके व्यक्तवाचां समुच्चारणे वर्तमानाद्वदतेरात्मनेपदं भवति विभाषा । प्राप्तविभा- षेयम् । विप्रवदन्ते सांवत्सराः । विप्रवदन्ति सांवत्सराः । विप्रवदन्ते मौहूर्त्ताः । विप्रवदन्ति मौहूर्त्ताः । युगपत्परस्परप्रतिषेधेन विरुद्धं वदन्तीत्यर्थः । विप्रलाप- इति किम् । संप्रवदन्ते ब्राह्मणाः । व्यक्तवाचामित्येव । विप्रवदन्ति शकुनयः । समुच्चारणइत्येव । क्रमेण मौहूर्त्ता मौहूर्तेन सह विप्रवदन्ति ॥ अवाद्गृः ॥ ५१ ॥ गृ निगरणइति तुदादौ पठ्यते तस्येदं ग्रहणं, न तु गृ शब्दइति क्रयादि- पठितस्य । तस्य ह्यवपूर्वस्य प्रयोग एव नास्ति । शेषादिति परस्मैपदे प्राप्ते । अवपूर्वाद्गिरतेरात्मनेपदं भवति । अवगिरते । अवगिरेते । अवगिरन्ते । अवा- दिति किम् । गिरति ॥ समः प्रतिज्ञाने ॥ ५२ ॥ गृ इति वर्तते । संपूर्वाद्गिरतेः प्रतिज्ञाने वर्त्तमानादात्मनेपदं भवति । प्रतिज्ञानमभ्युपगमः । शतं संगिरते । नित्यं शब्दं संगिरते । प्रतिज्ञानइति किम् । संगिरति ग्रासम् ॥ उदश्चरः सकर्मकात् ॥ ५३ ॥ शेषात्कर्त्तरि परस्मैपदे प्राप्ते उत्पूर्वाच्चरतेः सकर्मकक्रियावचनादात्म- नेपदं भवति । गेहमुच्चरते । कुटुम्बमुच्चरते । गुरुवचनमुच्चरते । उत्क्रम्य गच्छ- तीत्यर्थः । सकर्मकादिति किम् । बाष्पमुच्चरति ॥