काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 60, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ १ । ३ ॥ ५३ समस्तृतीयायुक्तात् ॥ ५४ ॥ संपूर्वाच्चरतेस्तृतीयायुक्तादात्मनेपदं भवति । तृतीयेति तृतीया विभ- क्तिरुह्यते तया चरतेरर्थद्वारेण योगः । अश्वेन संचरते । तृतीयायुक्तादिति किम् । उभौ लोकौ संचरसि इमं चामुं च देवल । यदाप्यत्र तदर्थयोगः संभवति तृती- या तु न श्रूयतइति प्रत्युदाहरणं भवति ॥ दाणश्च सा चेच्चतुर्थ्यर्थे ॥ ५५ ॥ दाण् दाने परस्मैपदी ततः संपूर्वात्तृतीयायुक्तादात्मनेपदं भवति सा चेत्तृतीया चतुर्थ्यर्थे भवति । कथं पुनस्तृतीया चतुर्थ्यर्थे स्यात् । वक्तव्यमेवैतत् । अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवतीति वक्तव्यम् ॥ * ॥ दास्या संप्रयच्छते । वृषल्या संप्रयच्छते । कामुकः सन् दास्यै ददातीत्यर्थः । चतुर्थ्यर्थइति किम् । पाणिना संप्रयच्छति । समः शब्देन व्यवधाने कथमात्मनेपदं भवति । सम इति विशेषणे षष्ठी न पञ्चमी ॥ उपाद्यमः स्वकरणे ॥ ५६ ॥ शेषात्कर्त्तरि परस्मैपदे प्राप्ते उपपूर्वाद् यमः स्वकरणे वर्त्तमानादात्मने- पदं भवति । पाणिग्रहणविशिष्टमिह स्वकरणं गृह्यते न स्वकरणमात्रम् । भार्यामुपयच्छते । स्वकरणइति किम् । देवदत्तो यज्ञदत्तस्य भार्यामुपयच्छति ॥ ज्ञाश्रुस्मृदृशां सनः ॥ ५७ ॥ ज्ञा श्रु स्मृ दृश् इत्येतेषां सन्नन्तानामात्मनेपदं भवति । तत्र जानातेर- पह्नवे ज्ञ इति त्रिभिः सूत्रैरात्मनेपदं विहितं श्रुदृशोरपि समो गम्यूच्छीत्यत्र विहितं तस्मिन्विषये पूर्ववत्सन इत्येव सिद्धमात्मनेपदं ततो ऽन्यत्रानेन विधी- यते । स्मरतेः पुनर्नाप्तएव विधानम् । धर्मं जिज्ञासते । गुरुं शुश्रूषते । नष्टं सुस्मूर्षते । नृपं दिदृक्षते । सन इति किम् । जानाति । शृणोति । स्मरति । पश्यति ॥ नानोर्ज्ञः ॥ ५८ ॥ पूर्वेण योगेन प्राप्तमात्मनेपदं प्रतिषिध्यते । अनुपूर्वाज्जानातेः सन्न- न्तादात्मनेपदं न भवति । तथा च सति सकर्मकस्यैवायं प्रतिषेधः संपद्यते । पुत्रमनुजिज्ञासति । अनोरिति किम् । धर्मं जिज्ञासते ॥ प्रत्याङ्भ्यां श्रुवः ॥ ५९ ॥ प्रति आङ् इत्येवंपूर्वाच्छृणोतेः सन्नन्तादात्मनेपदं न भवति । प्रतिशुश्रू- षति । आशुश्रूषति । उपसर्गग्रहणं चेदं, तस्मादिह प्रतिषेधो न भवति । देव- दत्तं प्रति शुश्रूषते ॥