भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 590, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 590

[Page Header] ॥ काशिका ॥ ६ ॥ ३ ॥ ५८२


श्लक्ष्णकेशीयते । स्वाङ्गादिति किम् । पटुभार्यः । ईत इति किम् । चक्रोश- भार्यः । अमानिनीति किम् । दीर्घकेशमानिनी ॥ जातेश्च ॥ ४१ ॥ जातेश्च स्त्रिया न पुंवद्भवति अमानिनि परतः । कठीभार्यः । बह्वृची- भार्यः । कठीपाशा । बह्वृचीपाशा । कठीयते । बह्वृचीयते । अमानिनीत्येव । कठमानिनी । बह्वृचमानिनी ॥ अयं प्रतिषेध औपसंख्यानिकस्य पुंवद्भावस्य नेष्यते ॥ हस्तिनीनां समूहो, हास्तिकम् ॥ पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४२ ॥ कर्मधारये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोर्भाषितपुंस्का- दनूङ्स्त्रियाः पुंवद्भवति । प्रतिषेधार्थोयमारम्भः । न कोपधाया इत्युक्तं तत्रापि भवति । पाचकवृन्दारिका । पाचकजातीया । पाचकदेशीया । संज्ञापूरणयो- श्चेत्युक्तं तत्रापि भवति । दत्तवृन्दारिका । दत्तजातीया । दत्तदेशीया । पूरण्याः । पञ्चमवृन्दारिका । पञ्चमजातीया । पञ्चमदेशीया । वृद्धिनिमित्तस्य च तद्धि- तस्यारक्तविकारइत्युक्तं तत्रापि भवति । शौच्रजातीया । शौच्रदेशीया । स्वाङ्गा- च्चेतो ऽमानिनीत्युक्तं तत्रापि भवति । श्लक्ष्णमुखवृन्दारिका । श्लक्ष्णमुखजा- तीया । श्लक्ष्णमुखदेशीया । जातेश्चेत्युक्तं तत्रापि भवति । कठवृन्दारिका । कठ- जातीया । कठदेशीया । भाषितपुंस्कादित्येव । खट्वावृन्दारिका । अनूङित्येव । ब्रह्मबन्धूवृन्दारिका ॥ कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः ॥ * ॥ कुक्कुट्या अण्डं, कुक्कुटाण्डम् । मृग्याः पदं, मृगपदम् । मृग्याः क्षीरं, मृगक्षीरम् । काक्याः शावः, काकशावः । न वा ऽस्त्रीपूर्वपदस्य विवक्षितत्वात् । स्वातन्त्र्येण विना पूर्वप- दार्थोत्र जातिः सामान्येन विवक्षितः । पुंवद्भावाद् ह्रस्वत्वं खित्घ्रादिषु भवति विप्रतिषेधेन । खित् । कालिंमन्या । हरिणींमन्या । घादि । पटुतरा । पटुतमा । पटुरूपा । पटुकल्पा । क । पटुका । शुढिका । एडेडबिड् दरद् एषु उशिजिलेत्येते जनपदशब्दाः क्षत्रियवाचिनः । तत्र तद्राजप्रत्ययस्य स्त्रियामतश्चेति लुकि कृते एडबिड्वृन्दारिकेति विगृह्य समासः क्रियते । ततः पुंवद्भावेन ऐड़बिक्रादयः पुंशब्दाः क्रियन्ते । ऐड़बिक्वृन्दारिका । औशिजवृन्दारिका * ॥ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योने- काचो ह्रस्वः ॥ ४३ ॥ घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतो भाषितपुंस्का-


[Footnote]

  • दारद्वृन्दारिका । पार्थवृन्दारिकेत्यधिकं पुस्तकान्तरे ।
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 590, कुल 828 में से · BharatKosha