भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 591, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 591

५९० ॥ काशिका ॥ ६ ॥ ३ ॥ त्परो यो ङीप्रत्ययस्तदन्तस्यानेकाचो ह्रस्वो भवति । घ । ब्राह्मणीतरा । ब्राह्मणीतमा। रूप । ब्राह्मणीरूपा । कल्प । ब्राह्मणीकल्पा । चेलट् । ब्राह्मणी- चेली। ब्रुव। ब्राह्मणीब्रुवा। गोत्र । ब्राह्मणीगोत्रा । मत। ब्राह्मणीमता । हत । ब्राह्मणीहता । घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि । ब्रुवदति ब्रवीतीति ब्रुवः पचाद्यचि वच्यादेशो गुणश्च निपातनाच्च भवति । ङ्य इति किम् । दत्ता- तरा । गुप्तातरा । अनेकाच इति किम् । नद्याः शेषस्यान्यतरस्यामिति वक्ष्यति । भाषितपुंस्कादित्येव । आमलकीतरा । कुवलीतरा ॥ नद्याः शेषस्यान्यतरस्याम् ॥ ४४ ॥ नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम् । कश्च शेषः । अस्त्री च या नदी ङ्यन्तं च यदेकाच् । ब्रह्मबन्धूत

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 591, कुल 828 में से · BharatKosha