काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 594, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ३ ॥ ५८३ पेषं वास वाहन धि इत्येतेषु चोत्तरपदेषु उदकस्य उद इत्ययमादेशो भवति । उदपेषं पिनष्टि । स्नेहेन पिष इति णमुल् । वास । उदकस्य वासः, उदवासः । वाहन । उदकस्य वाहन । उदवाहनः । उदकं धीयते ऽस्मिन्नि- त्युदधिः ॥ एकहलादौ पूरयितव्ये ऽन्यतरस्याम् ॥ ५९ ॥ उदकस्योद इति वर्तते । एको, ऽसहायः तुल्यजातीयेनानन्तरेण हला- दिना, हल् चादिर्यस्योत्तरपदस्य तदेकहलादिस्स्मिश्चैकहलादौ पूरयितव्य- वाचिन्यन्यतरस्यामुदकस्य उद इत्ययमादेशो भवति । उदकुम्भः । उदककुम्भः । उदपात्रम् । उदकपात्रम् । एकहलादाविति किम् । उदकस्थालम् । पूरयितव्य- इति किम् । उदकपर्वतः ॥ मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ॥ ६० ॥ मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषूत्तरपदेषू- दकस्य उद इत्ययमादेशो भवति अन्यतरस्याम् । उदकेन मन्थ, उदमन्यः । उदकमन्थः । उदकेनौदन, उदौदनः । उदकौदनः । सक्तुउदकेन सक्तः, उदसक्तुः । उदकसक्तुः । बिन्दु । उदकस्य बिन्दुः, उदबिन्दुः । उदकबिन्दुः । वज्र । उदकस्य वज्रः, उदवज्रः । उतकवज्रः । भार । उदकं बिभर्तीति, उदभारः । उदकभारः । हार । उदकं हरतीति, उदहारः । उदकहारः । वीवध । उदकस्य वीवध, उदवीवधः । उदकवीवधः । गाह । उदकं गाहत- इति, उदगाहः । उदकगाहः ॥ इको ह्रस्वो ऽङ्यो गालवस्य ॥ ६१ ॥ इगन्तस्याङ्यन्तस्योत्तरपदे ह्रस्वो भवति गालवस्याचार्यस्य मतेनान्यतर- स्याम् । ग्रामणिपुत्रः । ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः । ब्रह्मबन्धूपुत्रः । इक इति किम् । खट्वापादः । मालापादः । अङ्य इति किम् । गार्गीपुत्रः । वात्सीपुत्रः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामिति हि वर्तते । व्यवस्थि- तविभाषा चेयम् । तेनेह न भवति । कारीषगन्धीपतिरिति । इयङुवङ्भा- विनामव्ययानां च न भवति । स्त्रीकुलम् । भ्रूकुलम् । काण्डोद्भूतम् । वृषली- भूतम् । भ्रुकुंसादीनां तु भवत्येव । भ्रुकुंसः । भ्रुकुटिः । अपर आह ॥ भ्रुकुं- सादीनामकारो भवतीति वक्तव्यम् ॥ * ॥ भुकुंसः । भुकुटिः ॥ एकं तद्धिते च ॥ ६२ ॥ एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति । एकस्या आगतमेकरूप्यम् । एकमयम् । एकस्या भाव, एकत्वम् । एकता । उत्तरपदे । एकस्याः क्षीरम्, ३८