काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 595, कुल 828 में से
संदर्भ में पढ़ें५८४ ॥ काशिका ॥ ६ । ३ ॥ एकक्षीरम् । एकदुग्धम् । लिङ्गविशिष्टस्य ग्रहणामेकशब्दह्रस्वत्वं प्रयोजयति । अजादि रक्ष्यमाणमत्र विशेष्यते न पुनरच् रक्ष्यमाणेनेति ॥ ङ्यापोः संज्ञाछन्दसोर्बहु लम् ॥ ६३ ॥ ङ्यन्तस्याबन्तस्य च संज्ञाछन्दसोर्बहुलं ह्रस्वो भवति । ङ्यन्तस्य संज्ञा- याम् । रेवतिपुत्रः । रोहिणिपुत्रः । भरणिपुत्रः । न च भवति । नान्दीकरः । नान्दीघोषः । नान्दीविशालः । ङ्यन्तस्य छन्दसि । कुमारिदारा । प्रदर्शिदा न च भवति । फाल्गुनीपौर्णमासी । जगतीछन्दः । आबन्तस्य संज्ञायाम् । शिल- वहम् । शिलप्रस्थम् । न च भवति । लोमकाएशम् । लोमकाशण्डः । आबन्तस्य छन्दसि । अजातरेण जुहोति । ऊर्णम्रदा पृथिवीं विश्वधायसम् । न च भवति । ऊर्णासूत्रेण कवयो वयन्ति ॥ त्वे च ॥ ६४ ॥ त्वप्रत्यये परतो ङ्यापोर्बहुलं ह्रस्वो भवति । तदजाया भाव अज- त्वम् । अजात्वम् । तद्रोहिण्या भावो रोहिणित्वम् । रोहिणीत्वम् । संज्ञा- यामसंभवाच्छन्दस्येवोदाहरणानि भवन्ति ॥ इष्टकेषीकामालानां चिततूलभारिषु ॥ ६५ ॥ इष्टकेषीकामालानां चित तूल भारिन् इत्येतेषूत्तरपदेषु यथासंख्यं ह्रस्वो भवति । इष्टकचितम् । इषीकतूलम् । मालभारिणी कन्या । इष्टकादिभ्यस्त- दन्तस्यापि ग्रहणं भवति । पक्वेष्टकचितम् । मुञ्जेषीकतूलम् । उत्पलमाल- भारिणी कन्या ॥ खित्यनव्ययस्य ॥ ६६ ॥ खिदन्तउत्तरपदे ऽनव्ययस्य ह्रस्वो भवति । कालिंमन्या । हरिणिंम- न्या । मुमा ह्रस्वो न बाध्यते । अन्यथा हि ह्रस्वशासनमनर्थकं स्यात् । अन- व्ययस्येति किम् । दोषामन्यमहः । दिवामन्या रात्रिः । अनव्ययस्येत्येतदेवं ज्ञापकमिह खिदन्तग्रहणस्य ॥ अरुर्द्विषदजन्तस्य मुम् ॥ ६७ ॥ अरुस् द्विषत् इत्येतयोरजन्तानां च खिदन्तउत्तरपदे मुमागमो भवति अनव्ययस्य । अरंतुदः । द्विषंतपः । अजन्तानाम् । कालिंमन्या । अरुर्द्विषदज- न्तस्येति किम् । विद्वन्मन्या । अनव्ययस्येत्येवं । दोषामन्यमहः । दिवामन्या रात्रिः । अन्तग्रहणं किम् । कृताजन्ताकार्यप्रतिपत्त्यर्थम् । अतो ह्रस्वे कृते मुम्भवति ॥ इच एकाचोऽप्रत्ययवत् ॥ ६८ ॥ इजन्तस्य एकाचः खिदन्तउत्तरपदे ऽमागमो भवति अप्रत्ययवच्च