काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 596, कुल 828 में से
संदर्भ में पढ़ेंद्वितीयैकवचनवच्च स भवति । अमिति हि द्विरावर्तते । गांमन्यः । स्त्रींमन्यः । स्त्रियंमन्यः । प्रियंमन्यः । ध्रुवंमन्यः । अम्प्रत्ययवच्चेत्यतिदेशादात्वपूर्वसवर्णगु- णेयङुवङादेशा भवन्ति । ऋच इति किम् । त्वन्मन्यः । एकाच इति किम् । लेखाभुंमन्यः । अथेह कथं भवितव्यम् । श्रियमात्मानं ब्राह्मणकुलं मन्यतइत्यु- पक्रम्य श्रिमन्मन्यमिति भाष्ये स्थितम् । तच्चेदं भाष्यकारस्य दर्शनमत्र विषये परि- त्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते यथा प्रष्टादयः स्त्रियाम् । तत्र स्वमो- र्नपुंसकादित्यमो लुग्भवति ॥ वाचंयमपुरंदरौ च ॥ ६९ ॥ वाचंयम पुरंदर इत्येतौ निपात्येते । वाचंयम यस्ते । पुरं दारयतीति पुरंदरः ॥ कारे सत्यागदस्य ॥ ७० ॥ कारशब्दउत्तरपदे सत्य अगद इत्येतयोर्मुमागमो भवति । सत्यं करो- तीति सत्यस्य वा कारः सत्यंकारः । एवमगदंकारः ॥ अस्तुसत्यागदस्य कारइति वक्तव्यम् ॥ * ॥ अस्तुंकारः ॥ भक्तस्य छन्दसि कारे मुम् वक्तव्यः ॥ * ॥ भक्तं करोतीति भक्तस्य वा कारः, भक्तंकारः । छन्दसीति किम् । भक्तकारः ॥ धेनोर्भव्यायां मुम्वक्तव्यः ॥ * ॥ धेनुंभव्या ॥ लोकस्य पृणे मुम्वक्तव्यः ॥ * ॥ लोकंपृणा ॥ इत्ये ऽनभ्यासस्य मुम्वक्तव्यः ॥ * ॥ अनभ्याशमित्यः ॥ भ्राष्ट्राम्भ्योरिन्धे मुम्वक्त- व्यः ॥ * ॥ भ्राष्ट्रमिन्धः । आम्भ्रिमिन्धः ॥ गिले ऽगिलस्य मुम्वक्तव्यः ॥ * ॥ तिमि- ङ्गिलः । अगिलस्येति किम् । गिल