काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 597, कुल 828 में से
संदर्भ में पढ़ें५८६ ॥ काशिका ॥ ६ ॥ ३ ॥ नलोपो नञः ॥ ७३ ॥ नञो नकारस्य लोपो भवत्युत्तरपदे । अब्राह्मणः । अवृषलः । असुरापः । असोमपः ॥ नञो नलोपो ऽवक्षेपे तिङ्युपसंख्यानम् ॥ * ॥ अपचसि त्वं जाल्म । अकरोषि त्वं जाल्म ॥ तस्मान्नुडचि ॥ ७४ ॥ तस्माल्लुप्तनकारान्नञः नुडागमो भवति अजादावुत्तरपदे । अनञः । अनश्वः । तस्मादिति किम् । नञ एव हि स्यात् । पूर्वान्ते हि ङमो ह्रस्वा- दचि ङमुन्नित्यमिति प्राप्नोति ॥ नभ्राण्-नपात्नवेदानासत्या नमुचिनकुलनखनपुंस- कनक्षत्रनक्रनाकेषु प्रकृत्या ॥ ७५ ॥ नभ्राट् नपात् नवेदाः नासत्याः नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ् प्रकृत्या भवति । न भ्राजतइति, नभ्राट् । भ्राजते क्विबन्तस्य नङ्समासः । न पातीति, नपात् । पातिः शतृन्तः । न वेत्तीति नवेदाः । वेत्ति- रसुनप्रत्ययान्तः । नासत्याः । सत्सु साधवः सत्याः न सत्या, असत्याः, न अस- त्याः नासत्याः । न मुञ्चतीति, नमुचिः । मुचेरौणादिकः किप्रत्ययः । नास्य कुलमस्ति, नकुलः । नख । नास्य खमस्तीति, नखम् । नपुंसक । न स्त्री न पुमा- न्नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपात्यते । नक्षत्र । न तरते क्षीयतइति वा, नक्षत्रम् । क्षियः क्षरतेर्वा क्षत्रमिति निपात्यते । नक्र। न क्रामतीति नक्रः । क्रमेर्डप्रत्ययो निपातनात् । नाक । नास्मिन्कमिति नाकम् ॥ एकादिश्चैकस्य चादुक् ॥ ७६ ॥ एकादिश्च नञ्प्रकृत्या भवति एकशब्दस्यादुगागमो भवति । एकेन न विंशतिः एकान्नविंशतिः । एकान्नत्रिंशत् । तृतीयेति योगविभागात्समासः । पूर्वान्तोयमदुक् क्रियते । पदान्तलक्षणोत्रानुनासिको विकल्पेन यथा स्याद् इति ॥ नगो ऽप्राणिष्वन्यतरस्याम् ॥ ७७ ॥ नञ्प्रकृत्या भवति । नगा वृक्षाः । अगा वृक्षाः । नगाः पर्वताः । अगाः पर्वताः । न गच्छन्तीति नगाः । गमेर्डप्रत्ययः । अप्राणिष्विति किम् । अगो वृषलः शीतेन ॥ सहस्य सः संज्ञायाम् ॥ ७८ ॥ सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये । साश्वत्थम् । सपलाशम् । संशिंशपम् । संज्ञायामिति किम् । सहयुध्वा । सहकृत्वा । सादेश उदात्तो निपात्यते । उदात्तानुदात्तवतो हि सहशब्दस्यान्तर्यतः स्वरितः स्यात् ।