भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 598, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 598

॥ काशिका ॥ ६ ॥ ३ ॥ ५८७ स च निपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र तत्र उपयुज्यते । अन्यत्र समासा- न्तोदात्तत्वेन बाध्यतएव । सेष्टि, सपशुबन्धमिति ॥ ग्रन्थान्ताधिके च ॥ ७९ ॥ ग्रन्थान्ते ऽधिके च वर्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति । सकलं ज्योतिषमधीते । समुहूर्तम् । ससंग्रहं व्याकरणमधीयते । कलान्तं मुहू- र्त्तान्तं संग्रहान्तमिति अन्तवचनइत्यव्ययीभावः समासः । तत्राव्ययीभावे चाका- लइति कालवाचिन्युत्तरपदे सभावो न प्राप्नोतीत्ययमारम्भः । अधिके । सद्रोणा खारी । समाषः कार्षापणः । सकाकिणीको माषः ॥ द्वितीये चानुपाख्ये ॥ ८० ॥ द्वयोः सहयुक्तयोरप्रधानो यः स द्वितीयः । उपाख्यायते प्रत्यक्षत उप- लभ्यते यः स उपाख्यः, उपाख्यादन्यो ऽनुपाख्यो ऽनुमेयस्तस्मिन् द्वितीये ऽनु- पाख्ये सहस्य स इत्ययमादेशो भवति । साग्निः कपोतः । सपिपीलिका वात्या । सराक्षसीका शाला । अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीय- मानास्तदनुपाख्या भवन्ति ॥ अव्ययीभावे चाकाले ॥ ८१ ॥ अव्ययीभावे च समासे ऽकालवाचिन्युत्तरपदे सहस्य स इत्ययमादेशो भवति । सचक्रं धेहि । सधुरं प्राज । अकालइति किम् । सहपूर्वाह्णम् ॥ वोपसर्जनस्य ॥ ८२ ॥ उपसर्जनसर्वावयवः समास उपसर्जनं, यस्य सर्वे ऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर्गृह्यते । तदवयवस्य सहशब्दस्य वा स इत्ययमादेशो भवति । सपुत्रः । सहपुत्रः । सच्छात्रः । सहच्छात्रः । उपसर्जनस्येति किम् । सहयुध्वा । सहकृत्वा । सहकृत्यप्रियः प्रियसहकृत्वेतिबहुव्रीहौ यदुत्तरपदं तत्परः सहशब्दो न भवतीति सभावो न भवति ॥ प्रकृत्याशिष्यगोवत्सहलेषु ॥ ८३ ॥ प्रकृत्या सहशब्दो भवति आशिषि विषये ऽगोवत्सहलेषु । स्वस्ति देव- दत्ताय सहपुत्राय सहच्छात्राय सहामात्याय । अगोवत्सहलेष्विति किम् । स्वस्ति भवते सहगवे । सगवे । सहवत्साय । सवत्साय । सहलाय । सहह- लाय । वोपसर्जनस्येति पक्षे भवत्येव सभावः ॥ समानस्य छन्दस्यमूर्द्धप्रभृत्युदकेषु ॥ ८४ ॥ स इति वर्तते । समानस्य स इत्ययमादेशो भवति छन्दसि विषये