काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 599, कुल 828 में से
संदर्भ में पढ़ें५९८ ॥ काशिका ॥ ६ । ३ ॥ मूर्द्धन् प्रभृति उदर्क इत्येतान्युत्तरपदानि वर्ज्जयित्वा । अनुजाता सगर्भ्यः । अनुसक्षा सयूथ्यः । यो नः सनुत्यः । समानो गर्भः सगर्भः, तत्र भवः सगर्भ्यः । सगर्भसयूथसनुताब्दादिति यत् प्रत्ययः । अमूर्द्धप्रभृत्युदर्केष्विति किम् । समानमूर्द्धा । समानप्रभृतयः । समानोदर्काः । समानस्येति योगवि- भाग इष्टप्रसिद्ध्यर्थः क्रियते । तेन सपत्नः, साधर्म्यं, सजातीय, इत्येवमादयः सिद्धा भवन्ति ॥ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण- वयोवचनबन्धुषु ॥ ८५ ॥ ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्येतेषूत्तरपदेषु समानस्य स इत्ययमादेशो भवति । सज्योतिः । सजन- पदः । सरात्रिः । सनाभिः । सनामा । सगोत्रः । सरूपः । सस्थानः । सवर्णः । सवयाः । सवचनः । सबन्धुः ॥ चरणे ब्रह्मचारिणि ॥ ८६ ॥ चरणे गम्यमाने ब्रह्मचारिण्युत्तरपदे समानस्य स इत्ययमादेशो भवति । समानो ब्रह्मचारी, सब्रह्मचारी । ब्रह्म वेदस्तदध्ययनार्थं यद्व्रतं तदपि ब्रह्म तच्चरतीति ब्रह्मचारी । समानस्तस्यैव ब्रह्मणः समानत्वादित्ययमर्थो भवति । समाने ब्रह्मणि व्रतचारी सब्रह्मचारीति ॥ तीर्थे ये ॥ ८७ ॥ तीर्थशब्दउत्तरपदे यत्प्रत्ययपरे परतः समानस्य स इत्ययमादेशो भवति । सतीर्थ्यः । समानतीर्थे वासीति यत्प्रत्ययः ॥ विभाषोदरे ॥ ८८ ॥ उदरशब्दउत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययमादेशो भवति । सोदर्यः । समानोदर्यः । समानोदरे शयित ओ चोदात्त इति यत् ॥ दृग्दृशवतुषु ॥ ८९ ॥ दृक् दृश वतु इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति । 'सदृक् । सदृशः । त्यदादिषु दृशो ऽनालोचने कञ्चेत्यत्र समानान्ययोश्चेति वक्तव्यमिति कञ्क्किनौ प्रत्ययौ क्रियेते ॥ दृक्षे चेति वक्तव्यम् ॥ * ॥ सदृक्षः ॥ दृशेः क्सप्रत्ययोपि तत्रैव वक्तव्यः ॥ * ॥ वतुग्रह्णमुत्तरार्थम् ॥ इदंकिमोरीश्की ॥ ९० ॥ इदं किम् इत्येतयोरीश की इत्येतौ यथासंख्यमादेशौ भवतो दृग्दृश-